SearchBrowseAboutContactDonate
Page Preview
Page 514
Loading...
Download File
Download File
Page Text
________________ १० सर्गः ] हीरसौभाग्यम् । ४५३ धान्देवान् संप्रीणयन्ति तोषयन्ति । समीहितदानादिना प्रीता हि देवा अभीष्टसिद्धिं ददते इत्यर्थः ॥ सर्वानुवाद इव यन्महसां विहाय :पान्थः किमु प्रतिनिधिर्हुतभुक्पयोधेः । वज्रोऽनुकार इव कायलता हुताश पङ्क्तिः पुनः सहचरस्तडितां विलासः ॥ ५६ ॥ यन्महंसाम् अकब्बरसाहेर्भूयसः प्रतापानां विहायः पान्थो गगनाध्वनीनः सहस्ररश्मिः सर्व समस्तरूपमनुवदतीति सर्वानुवादः पुनरप्यभिधानमिव । पुनः पयोधेः स•मुद्रस्य हुतभुक् ज्वालाजिह्वो वडवामुखः प्रतिनिधिः प्रतिबिम्बमिव । पुनर्वज्रो वासवहस्तदम्भोलिः अनुकारः सादृश्यमिव । पुनर्हुताशानां पावकानां पतिर्मालिका कायलता शरीरयष्टिरिव । पुनस्तडितां विद्युतां विलासो विजृम्भितं सहचरः सखा । 'स्निग्धः सहचरो मित्रं सखा' इति हैम्याम् ॥ ऐश्वर्यमीशत इव प्रभुतां सुरेन्द्रा दोजो रवेर्निधिपतेश्च चदान्यभावम् । भोगीश्वरादवनिगौरवसाहसित्व मादाय योऽम्बुजभुवा निरमायि भूमान् ॥ १७ ॥ यो भूमान् अकब्बरसाहिः अम्बुजभुवा नारायणनाभिनीरजजन्मना ब्रह्मणा । उत्प्रेक्ष्यते - ईशत ईश्वरादैश्वर्यमीश्वरताम् । तथा सुरेन्द्राद्देवनायकात्प्रभुतां स्वामितां सामर्थ्य वा । पुनः रवेः सहस्रकिरणादोजः प्रतापम् । 'यदोजसो यद्यशसः स्थिताविमौ ' इति - नैषधे । भोजः शब्देनात्र प्रतापः । च पुनर्निधिपतेर्वैश्रवणाद्वदान्यभावं दानशीलताम् । पुनर्भोगीश्वरात् शेषनागनाथादव ने र्मेदिनीमण्डलस्य गौरवस्य साहसित्वं सहनशीलताम् । 'सहिवहिचलिपतिभ्यो यङन्तेभ्यः किकिनौ वाच्यौ' । 'सासहिः वावहिः चाचलि: पापति:' इति प्रक्रियाकौमुद्याम् । आदाय गृहीत्वा निरमायि निष्पादित इव ॥ इत्यकब्बरसाहियशः प्रतापदातृतादिगुणाः ॥ क्षोणीक्षितः क्षितिरुहानिव वायुरंहः प्राच्याननामयदकब्बर भूमिपालः । तस्माद्दिशो जगृहिरेऽपि च दाक्षिणात्य - क्ष्माभृद्भरेण शरभादिव सिन्धुरेण ॥ १८ ॥ अकब्बरनामा भूमीपाल: क्षितिरक्षिता प्राच्यान् पूर्वदिग्भवान् पूर्वदिक्संबन्धिनो वा क्षोणीक्षितः पार्थिवान् । 'महीक्षित्पार्थिवो मूर्धाभिषिक्तो भूप्रजानृपः' इति हैम्याम् ।
SR No.002262
Book TitleHeer Saubhagya Mahakavyam
Original Sutra AuthorN/A
AuthorDevvimal Gani, Shivdatta Pandit, Kashinath Sharma
PublisherKalandri Jain S M Sangh
Publication Year1985
Total Pages980
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy