________________
१० सर्गः] हीरसौभाग्यम् । दर्श' इति मेघदूतेऽपि । यथा उद्धराणामुत्कटानां सिन्धुराणां वारणानां निभात्कपटात् । उत्प्रेक्ष्यते-एनं मुगलमेदिनीमण्डलामण्डलम् किं संसेवितुं सम्यग्विधिनोपासितुमिव समीयुः समागताः॥
कल्पावनीरुहवनानि महीमघोना .
प्रोदामदानललितैरवहेलितानि । गुच्छप्रसूनफलभारनमच्छिखानि
बीडोदयादिव बभूवुरधोमुखानि ॥ १७ ॥ महीमघोना अकब्बरक्षोणीसहस्रचक्षुषा प्रोद्दामानां जनमनःसमीहिताधिकतया प्र. चलानां दानानां वर्णमणीगणादि विश्राणनानां ललितैः विलासैर्विजम्भितैरवहेलितानि अवगणनां गमितानि कल्पावनीरहाणां सुरतरूणां वनानि काननानि । समूहा इत्यर्थः । उत्प्रेक्ष्यते, बीडोदयालजायाः प्रादुर्भावादिव । खावज्ञासंजातातिमन्दाक्षोद्गमनेत्यर्थः । अधोमुखानि नीचैर्भूतानि वदनानि येषां तादृशानि बभूवुर्जातानीव । किंभूतानि । गुच्छाः खबकाः, प्रसूनानि कुसुमानि, फलानि सस्पानि, तेषां भारेण वीवधेन नमन्यो भूमावेत्य लगन्यः शिखाः शाखा येषाम् ॥
. एतन्महस्त्रिभुवनभ्रमणीविलासं .. चैत्राकारनिकरैरपि दुःप्रधृष्यम् । उल्लवितुं स्पृहयतेव सहस्रपादी
निर्मीयते स्म सरसीरुहिणीवरेण ॥ १८ ॥ - सरसीरुहिणीनां कमलिनीनों वरेण भर्ना भानुना । सहस्रसंख्याकानां पादानां समा. हारः सहस्रपादी दशशतचरणाः । 'पादो मूलास्रतुर्याशाद्रिषु प्रत्यन्तपर्वते' इत्यनेकार्थः । निर्मीयते स्म । कृत्वा । उत्प्रेक्ष्यते-एतस्याकब्बरसाहेमहः प्रतापमुल्लवितुमतिक्रमितु. मिव । 'लघूङ् गती' अयं धातुभंदिरात्मनेपदी । अतिदुःसहतया निजजैत्रतया च एतत्पुरस्त्वरितुं पलायितुं वा स्पृहयता काश्ता । किंभूतं महः । त्रिभुवने त्रैलोक्येऽपि भ्रमणी पर्यटनम् । 'विधेः कदाचिद्भमणीविलासे' इति नैषधे । तत्र विलासः क्रीडा यस्य । पुनः किंभूतम् । जैत्राणां जयनशीलानां प्रतिपक्षलक्षतिरस्कृतिदीक्षितानामङ्ककाराणां प्रतिमल्लानां जिष्णूनामपि जित्वराणां निकरैः समुदायैरपि दुःप्रधृष्यं दुराकलनीयम् । सर्वथापि जेतुमशक्यमित्यर्थः । 'दूर गौरगणैरहंकृतिभृतां जैत्राङ्ककारे चर-'इ. त्यपि नैषधे ॥ . आकालिकीकुलिशशैवलिनीशवह्नि
वैश्वानराम्बुरुहिणीरमणप्रदीपाः ।