SearchBrowseAboutContactDonate
Page Preview
Page 508
Loading...
Download File
Download File
Page Text
________________ १० सर्गः] हीरसौभाग्यम् । ओजः प्रतापः यशः कीर्तिस्त एवावनिम्ही पादपो तयोजिं योनिनिबन्धनं तरुप्ररोहप्रा. दुर्भावकरं पर्वतेवपतीव निःक्षिपतीव । काभिः । खनिशिततरवारिभिराहता माढदतप्रहाराः सर्वाङ्गेषु आसामस्त्येन नित्रिंशतया निस्त्रिशैनिहता वा तथा उद्धताः समरशूरा अनवरतविनिःसरत्सप्तस्थानदानपयःप्रवाहोत्कटा वा ये मतङ्गजाः कुञ्जरास्तेषां दन्तेभ्यो दन्तकोशेभ्यः ‘दंतूमल' इति प्रसिद्धेभ्यः। तथा कुम्भेभ्यः शिरःपिण्डस्थलेभ्यः प्रोद्भताः प्रकटा जाता ये पावककगोत्करा वादेम्फुलिङ्गगणास्तथा मुक्तिका मुक्ताफलानि खड्गप्रहतेभ्यो दन्तकोशेभ्यः कृशानुस्फुलिङ्गाः । दन्तेभ्यः खडाहतेः पावकोद्भवः । तथा कृपाणविदीर्णप्रहारकुम्भस्थलेभ्यो मौक्तिकााने विनिर्जग्मुः । कुम्भान्तरे नुक्तानामुत्य. त्तित्वात्तनिर्गमः इति । ताभिरवापेव ॥ युद्धोद्भुरे मुवनीतिकरे नरेशे . त्रासात्स्वकीयवसतेरिव मूरराजौ। . भ्रष्टौ पुनस्तदनवेक्षणतोऽन्तरिक्षे . प्रेक्षाकृते तत इतो भ्रमिमादधाते ॥ ४३ ॥ युद्धे समराङ्गणे उद्रे उद्धते उत्कट वैरिभिर्द्रष्टुमशक्यैः । तथा भुवनानां प्रबलबलवत्तया जगतामपि सुग्दानवमानवेन्द्राणामपि आकस्मिकात्यन्तिकान्तकशावतार नरेशे अकब्बराभिधाननरनायके त्रासादाकस्मिकात्मपराभवनभयभरात् सूरराजौ सुभटभूपती सूर्यचन्दौ । उत्प्रेक्ष्यते-खकीयवसतेरात्मीयनिवसनस्थानकाटौ भ्रंशं प्राप्तौ । अतिभीतेः खस्थानं परित्यज्य अन्यत्र कुत्रापि प्रपलाप्य प्रयातावित्यर्थः । पुनामुल्य तदनवेक्षणतः तस्य खस्थानकस्य अनवेक्षणतोऽनवलोकनाददर्शनात् । निजनिवासस्थाने न पश्यत इत्यर्थः । अन्तरिक्षे आकाशे न तद्भयाद्भूमौ प्रेक्षाकृते अर्थात्वस्थानदर्शनार्थ तत इतः पूर्वपश्चिमदक्षिणोत्तरासु भ्रमि भ्रान्तिमादधाते कुर्वाते । स्ववासस्थानमलभमानौ नियं भ्राम्यत इत्यर्थः ॥ .. आकस्मिकं तुमुलमेतदनन्यजन्य व्याहन्यमानभटकोटिभवं निशम्य । आतकितैः किमिदमित्यमरैर्वदद्भि लेभे किमीक्षणयुगेषु निमेषनैस्व्यम् ॥ ४४ ॥ एतेनाकब्बरेणानन्ये असाधारणे अदृष्टाजातपूर्व जन्ये संग्रामे व्याहन्यमानानां व्यापाद्यमानानां भटानां राजन्यवीराणां कोटीभ्यः । कवीनां कुत्रचित्केचित् कोटीप्र. मुखाः शब्दाः प्रायो बाहुल्ये दृश्यन्ते । यथा पाण्डवचरित्रे घटोत्कचस्य 'घदको' इति प्रसिद्धस्य भीम हिडम्वागजातस्यैकरात्रिरणे-'रथान् पिपेष पाषाणैर्जघान तरुभिर्गजान् । सवेगापातवातेन भटकोटीरपातयत् ॥' तथा तत्रैव गाङ्गेयस्य दशमदिवससं
SR No.002262
Book TitleHeer Saubhagya Mahakavyam
Original Sutra AuthorN/A
AuthorDevvimal Gani, Shivdatta Pandit, Kashinath Sharma
PublisherKalandri Jain S M Sangh
Publication Year1985
Total Pages980
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy