________________
काव्यमाला।
पूर्वापराम्बुनिधिसैकतसीमभूमी
संचारिचञ्चुरचमूचरभूरिभारम् । सोढुं न सासहिरहीश्वर एकमूनों
शीर्णा सहस्रमिति किं रचयांचकार ॥ ४० ॥ अहीश्वरः शेषनागनायकः । उत्प्रेक्ष्यते इति हेतोः शीी मस्तकानाम् । फणानामित्यर्थः । सहस्रं दशशतीं किं रचयांचकार रचितवानिव । इति किम् । यदहं पूर्वापरौ प्राच्यप्रतीच्यौ यावम्बुनिधी समुद्रौ तयोः सेकते नीरनिर्मुक्तपुलिने ते एव सीमनी मयादास्थाने यस्यास्तादृशी भूमी वसुधा तस्यां विषये संचारिणां संचरणशीलानां चञ्चुराणां शौर्यधैर्यादिगुणगणप्रधानानां खखामिकार्यकरणप्रवणानां चमूचराणां सेनासुभटानां भूरि भूयिष्ठं भारं गजाश्वस्यन्दनपदातिपरम्परावीवधं सोढुं धारयितुम् । एकेन मूर्श . मस्तकेन कृत्वा न सासंहिर्न समर्थः । 'अहिर्महीगौरवसासहिर्यः' इति नैषधे । तथा ' सहनशील: भृशं सहते इति । 'सासहिर्वावदिश्चाचलि:पापतिप्रभृतय इकारान्ता निपाताः' . इति नरहरू नैषधवृत्तौ ॥
पाणौ रणाङ्गणगतस्य कृपाणयष्टिः __ क्षोणीमणेस्तृणयतः पृतनां रिपूणाम् ।। भाति प्रचण्डभुजदण्डवसज्जयश्रीः
केशच्छटा प्रकटतामिव टीकमाना ॥.४१ ॥ क्षोणीमणेभूमीरत्नस्याकब्बरपातिसाहेः पाणौ हस्ते कृपाणयष्टिः करवाललता भाति राजते। किंभूता । रणाङ्गणे युद्धमूनि गतस्य प्राप्तस्य । अत एव किं कुर्वतः । रिपूणां प्रतिभटानां पृतनां सेनां पताकिनी तृणयतः तृणप्रायां मन्यमानस्य तृणीकुर्वतः । न किं. चित्करतां प्रणयतः तृणवत्खण्डयतो वा । उत्प्रेक्ष्यते-प्रकटतां प्रकाशभावं जनदृग्गोचरत्वं टीकमाना गच्छन्ती । प्रचण्डौ जानुयुगव्यायतौ द्विषजनासह्यपराक्रमी भुजदण्डौ तयोर्वसन्त्या चिरं वासं सृजन्त्याः । तिष्ठन्त्या इत्यर्थः । जयश्रियो जय. लक्ष्म्या केशच्छटा कुन्तलहस्तो वेणी वेत्यर्थः ॥
खड्गाहतोद्धतमतङ्गजदन्तकुम्भ
प्रोद्भूतपावककणोत्करमुक्तिकाभिः । क्षुण्णे तुरङ्गमखुरै रणभूतले य
___ ओजोयशोऽवनिरुहोवेपतीव बीजम् ।। ४२ ॥ यः साहिस्तुरङ्गमाणां शौर्यादयोत्सुकतया खुरैः शफेर्नखशिखाभिः क्षुण्णे क्षोदिते अ. तिवाहिते 'खेडऊं' इति जनप्रसिद्ध रणभूतले रणाङ्गणे युद्धधरामण्डले । उत्प्रेक्ष्यते