________________
काव्यमाला।
विद्रावयन्परवधूवदनाम्बुजानि
शूरद्रुमान्पुलककोरकितान्प्रकुर्वन् ।। ३६ ॥ (युग्मम्) यस्य जलालदीनसाहेराहवः संग्रामो घनाघनवन्मेघ इवाजनि संजज्ञे समभूत् । किंभूतः । कृपाणा: शाणशिखरोल्लिखित निशितझगझगितिकान्तिकरवाला एव विद्युतस्तडिद्वितानानि यत्र । पुनः किंभूतः । पतन्त्यः कपोलपालीभ्योऽविरलं निःसरन्त्यः समदानां मदोद्धराणां दन्तिनां दन्तावलेन्द्राणां मदाम्बूनां दानजलानां धारा वृष्टयो यत्र । पुनः किंभूतः । भल्लीभिः शस्त्रविशेषः । 'तिमिरकरिकुम्भभेदनभल्लीष्विव दीपकलिकासु' इति चम्पूकथायाम् । निकृत्ताश्छेदिता ये रिपवो विपक्षास्तेषां शोणितानि रुधिराणि एव सिन्धूनां नदीनां वेणयः प्रवाहा यत्र ! 'उच्छङ्खलं चलन्तीनाममः ग्जलधियोषिताम्' इति पाण्डवचरित्रे । वेणीशब्दो दीर्घो हखोऽप्यस्ति । पुनः किंभूतः । उड्डीनरूटवंगतैर्दशदिग्विस्तृतैः पांसुभिः गजवाजिरथपत्तिप्रकराणामितस्ततस्त्वरितसंचरणैरुत्खातैर्भमदभ्राभ्रकविक्रमायमाणै रजोवजैः पिहिता आच्छादिता अदृग्गोचरीकृता अखिलानां समस्तानां दिशां हरितां विभागाः प्रदेशा यत्र । अपि पुनः किं कुर्वन्। अरीणां शत्रूणां कीर्तय एव हंसास्तेषां श्रेण्या धोरण्या कृत्वा भुवनं विश्वं पानीयम् । 'भुवनं वनं घनरसो यादोनिवासोऽमृतम्' इति हैम्याम् । शून्यं रिक्तं च सृजन् कुर्वन् । प्रायः प्रावृषि राजहंसा मानससरसि यान्ति । प्रायवृष्ट्या बहलजम्बालागमेन जलकालुष्यान्नान्यजलाशयेषु तिष्ठन्तीति । पुनः किं कुर्वाण: । द्विषति वैरिणि कुले वंशे विपक्षान्ववाये दौस्थ्यादौर्भाग्यवनवासपुत्रकलत्रमित्रप्रमुखखजनजनवियोगादिरूपं दुर्दिनं कुदिवसं दुष्टं दिनं मेघान्धकार वादधानः निर्मिमाणः । 'वधूवाम्भोजं भवतु न स तेषां कुदिवसः' इति नैषधे । पुनः किंभूतः । परेषां पथिकपृथ्वीनायकानां वधूनां पुरंध्रीणां वदनान्येवाम्बुजानि तामरसानि विद्रावयन् म्लानिं प्रापयनं गतप्रायाणि सृजन् । 'विद्राणपङ्कजरसे' इति चम्पूकथायां वर्षावर्णने । पुनः किंभूतः । शूराः सुभटा एव द्रुमा वृक्षास्तान्पुलकेन रोमाञ्चेन रोमहर्षणेन संनिभाश्च कोरकाः कुड्मलाः संजाता ए. ध्विति कोर कितास्तथाविधान्प्रकर्षेण कुर्वन् । 'कदाचिदच्युत इव शिशिरकमलाकरगाहोत्पन्नपुलककोरकिततनुः' इति चम्पूकथायाम् । शूरा हि साहिशौर्य श्रुत्वा रोमाचकचकिता जायन्ते इत्यर्थः ॥ युग्मम् ॥
एतत्तुरङ्गमगणा दिवि संपराये ___ प्रोत्तालंफालललितं कलयांबभूवुः । जित्वा धरां विबुधधाम पुनर्जिघृक्षोः
संलक्ष्य तत्क्षणमिवाशयमात्मभर्तुः ॥ ३७ ॥ संपराये संग्रामे एतस्याकब्बरनृपतेस्तुरङ्गमगणा वाजिवजा दिवि मरुन्मागे प्रोत्तालं शीघ्रम् । 'उतावलूं' इति प्रसिद्धिः । तथा 'चलद्वलयमुखरकरतलोत्तालतालिका