SearchBrowseAboutContactDonate
Page Preview
Page 504
Loading...
Download File
Download File
Page Text
________________ १० सर्गः] हीरसौभाग्यम् । ४४३ वक्षःशिलाः स्म विलिखन्ति नखाग्रटकैः कीर्तिप्रशस्तिमिव भूभृदकब्बरस्य ॥ ३३ ॥ परिपन्थिनां शात्रवधरित्रीभृतां कान्ताः प्रेयस्यः वक्षांसि हृदयान्येव शिलाः पृथुलपाषाणास्ता नखानां खकरजानामप्राणि शिखा एव टङ्काः पाषाणोत्कीर्णनकराण्यायसो. पकरणानि टङ्गणकानीति प्रसिद्धास्तैर्विलिखन्ति विदारयन्ति स्म । उत्प्रेक्ष्यते-भूभृतो राज्ञोऽकब्बरस्य नृपस्य कीर्तिर्यशस्तस्याः प्रशस्तिर्जगद्विजयकरणवर्णनवर्णावली तामिव । किं कृत्वा । येन पातिसाहिनाहवे महाविप्रहे प्रणिहता यमराजगृहाङ्गणावगाहिनो विहिता ये आत्मनां खासां पतयः प्राणनाथास्तेषां प्रवृत्ति वार्ता स्वेषामात्मीयानां कर्णानां श्रवणानां पथिकी पाथीप्राघुणकी कृत्वा । श्रुत्वेत्यर्थः ॥ एतद्भवन्निजनिशुम्भभविष्णुशङ्का ' तङ्काकुलीकृतवनेचरवैरिवध्वः ।। ‘रङ्गत्प्रपा इव पयोधरशातकौम्भ कुम्भाश्च्युताश्रुजलपूरितनेत्रपात्रः ।। ३४ ॥ एतस्मादकब्बरधरणीधरात् भवन्नुत्पद्यमानो यो निजस्य स्वात्मनः निशुम्भो वधस्तस्माद्भविष्णुर्भवनशीला या शङ्का अनिष्टसंभावनं तया आतङ्को भयं तेनाकुलीकता विला जाता अत एव वने गिरिगहने निकुञ्ज वा चरन्ति संचारिणो वनेचरा ये वैरिणो विपक्षक्षितिपालास्तेषां वध्वः स्त्रियः रङ्गन्त्यः संचरन्त्यः । जंगमा इत्यर्थः। प्रपाः पानीय. शाला इवासन्वभवः । किंभताः। पयोधरा उच्चकचाः सलिलधारिणः। जलभृता इत्यर्थः । शातकौम्भाः सवर्णसंबन्धिनः कुम्भाः कलशा यास यासां वा । पुनः किंभताः । . च्युतानि दुःखप्रकर्षाद्विलोचनेभ्यो निःसरन्ति यान्यश्रूणि बाष्पाणि तेषां जलै रुदननीरभरैः पूरितानि निर्भरभृतानि नेत्राणि नयनानि एव पात्राणि पर्णानि भाजनानि यासां यासु वा । 'पात्रं तु कूलयोर्मध्ये पणे नृपतिमन्त्रिणि । योग्यभाजनयोर्यज्ञभाण्डे नाव्यानुकर्तरि ॥' इत्यनेकार्थः॥ यस्याहवोऽजनि घनाघनवत्कृपाण विद्युत्पतत्समददन्तिमदाम्बुधारः । भल्लीनिकृत्तरिपुशोणितसिन्धुवेणी. रुड्डीनपांसुपिहिताखिलदिग्विभागः ॥ ३५ ॥ शून्यं सृजन्भुवनमप्यरिकीर्तिहंसः श्रेण्या कुले द्विषति दुर्दिनमादधानः। .
SR No.002262
Book TitleHeer Saubhagya Mahakavyam
Original Sutra AuthorN/A
AuthorDevvimal Gani, Shivdatta Pandit, Kashinath Sharma
PublisherKalandri Jain S M Sangh
Publication Year1985
Total Pages980
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy