________________
४१२
काव्यमाला।
अक्षिभिरात्मीयविलोचनरपि नालक्ष्यत न दृश्यते स्म । क इव । प्रकर्षण सरन् चलन् गच्छन्नाशुगवत् वायुरिव । यथा पवमान आगच्छन्न लक्ष्यते परं पुनरजे काये लगन् प्रहत्य मध्ये प्रविशन् सोऽवुध्यत ज्ञायते स्म ॥
यं स्वर्णकायमरिनागनिपातनिष्णं ___ दृष्टया निपीय हरिवाहनवद्धलीलम् । चित्रं किमत्र यदरातिमहीन्द्रबाहु
कुम्भीनसैः समरमूर्ध्नि जडीवभूवे ॥ ३१॥ . खर्ण जाम्बूनदंतत्सदृशो गौरवर्णत्वात्कायस्तनूलता यस्य तम् , तथा अरिषु परिपन्थिषु नागाः प्रधानाः । 'सिंहशार्दूलनागाद्याः । स्युरुत्तरपदे प्रख्याः प्रशस्तार्थप्रकाशकाः ॥' इति हैन्याम् । महीपालास्तेषां निपाते यमधामाजिरातिथीकरणे निष्णं निपुणम्, तथा हरिरश्व एव उपलक्षणाद्गजोऽपि वाहनं यानं तत्र बद्धा रचिता लीला क्रीडा वाह्याली. काद्या परस्परसंप्रहारादिका येन तादृशं यं पातिसाहिमकब्बरं दृश्या विलोचनेन निपी. ' यापीय । भयविह्वलतरलकातरदृशा दृष्टेत्यर्थः । यदरातबः यस्य विपक्षकक्षामगीकुर्वाणा एव महीन्दा महामेदिनीमघवानस्तेषां बाहवो दोर्दण्डा एव कुम्भीनसा भुजंगमास्तैडीवभूवे प्रहरणग्रहणवाणक्षेपणादिप्रकारे निश्चेष्टेः संजातम् । किंकर्तव्यतामूढैरिव आलेख्यलिखितैरिव वा निर्यापारैर्जज्ञे । अत्र प्रकारे किं चित्रं को विस्मयः । यद्गरुडदर्शनादेव तत्कालं व्याला अपि जडीभवन्ति एव । गरुडः किंलक्षण: । सुवर्णस्य कायः पक्षप्रभृति शरीरं यस्य । तथा अरिभूताः शत्रुभावं प्राप्ता ये नागा भुजगास्तेषां निपाते नितरां पाते निष्णो निपुणः । तथा हरेगोविन्दस्य वाहनत्वे यानभावे बद्धा निर्मिता लीला विलासो येन ॥
यस्याशुगान्प्रणयतः प्रतिभूपतीनां
प्राणान्सुराध्वनि विधाय रविं वारव्यम् । आजिः सकार्मुककरस्य खलूरिकेव
रन्ध्र रवौ रिपुभिरैक्षि न चेत्कुतस्त्यम् ॥ ३२ ॥ यस्याकब्बरस्य राज्ञः आजि: संग्रामभुमिः खलूरिका शस्त्राभ्यासभूरिवाभू(भूव । यस्य किं कुर्वतः। सुराध्वनि गगनाङ्गणे रवि मार्तण्डमण्डलं शरव्यं वेध्यं विधाय कृत्वा प्रतिभूपतीनां प्रतिपक्षक्षोणीपालानां प्राणाञ्जीवितानि आशु त्वरिततरं गच्छन्ति परलोकं यान्तीत्याशुगाः शीव्रगामिनः शराश्च तान्प्रणयत: मृजतः । यस्य किंभूतस्य । सह कार्मु. केन कोदण्डेन वर्तते यः स तादृशः करः पाणिर्यस्य । एवं चेन्न तर्हि रिपुभिः पारे. पन्थिपृथ्वीपतिभिः रवौ सूर्यबिम्बे रन्ध्र छिद्रं कुतस्त्यं कुतोभवमैक्षि विलोकितं दृष्टम् ॥
येनाहवे प्रणिहतात्मपतिप्रवृत्ति ।
कृत्वा स्वकर्णपथिकी परिपन्थिकान्ताः । ...