________________
१० सर्गः ]
हीरसौभाग्यम् ।
४४१
येन साहिना संप्रहारे समरे सम्यक्पर विल्लवकारि प्रहारेण वा हतानि निर्दलितानि हास्तिकानि मतङ्गजत्रजाः । हस्तिनां समूहो हास्तिकम् । 'हास्तिकं तु हस्तिनां स्यात्' इति हैम्याम् । स्वमूहार्थेऽण् । तेषां मस्तकानि कुम्भस्थलानि तेषामन्तर्मध्याद्भद्र जातिजनितत्वेन शिरः पिण्डान्तरालान्निष्पातिनां निःशेषेण निरन्तरं वा पतनशीलानां शुक्तिजानामामलकप्रमाणमुक्ताफलानां ततिर्धारणी समरे संग्रामे विरेजे विशेषेण भाति स्म । उत्प्रेक्ष्यते – जन्यापाने रणाङ्गणरूपवारुणीपानगोष्ठीस्थाने । ' आपानं पानगोष्ठी स्यात्' इति है - म्याम् । विरोधिनामकब्बरप्रतिभटभटानां रुधिराणि प्रहरणमहाप्रहारप्रवहदप्रमाणशोणितान्येवासवो मदिराः पिबतीत्येवंशीलेन शमनेन यमेन प्रकटिता जनदृग्गोचरीकृता दन्तावली दशनश्रेणिरिव ॥
एतद्भुजारणिसमुत्थमहो हुताशज्वालाज्वलद्बहलबाहुजवंशराशेः । उद्गत्वरैः प्रसृमरैरिव धूमवारै
राविर्बभूव शितिमा दिविषत्पदव्याम् || २९ ॥
एतस्याकब्बर साहेर्भुजो दोर्दण्डः स एवारणिरनिकाष्ठं तस्मात् सम्यंक् मित्राणां शारदीनसुधाकरतया अमित्राणां परिवर्तप्रचण्डकिरणतया उत्था उत्थानं यस्य तादृशं यन्महः प्रबलप्रतापः स एव हुताशो ज्वलज्ज्वालस्तस्य ज्वालाभिरभ्रंकष शिखाभिर्ध्वलन्तो दह्यमाना भस्मीभवन्तो वा ये बहला भूयिष्ठा अतिशयेन बहवः । ' बहोरिष्ठेयः बहोश्च भूवादेश:' । बांहुजा राजन्याः । 'राजन्यो बाहुसंभवः' इति हैम्याम् । साहिविपक्षपक्षलक्षास्तेषां वंशा अन्वयास्त एव वंशा वेणवो वा तेषां राशिः समूहः • तस्मादुद्गत्वा रुत् ऊर्ध्वं गमनशीलैः उच्चैर्निर्याथिभिरुत्थितैर्वा तथा प्रस्टमरैजंगद्यापनशीलै - धूमवारैर्वायुवाहत्रजैः । ' स्याद्वायुवाहोऽग्निवाहो दहनकेतनः' इति हैम्याम् । उत्प्रेक्ष्यते— दिविषत्पदव्यां देवमार्गे गगनाङ्गणे शितिमा श्यामता आविर्बभूव प्रकटीभूता । प्रायो वंशेषु दह्यमानेषु प्रबला धूमाः प्रादुर्भवन्ति बहुभिश्च दहनकेतनैर्गृहाद्युपरितनभागे च मेकमा भवेदिति प्रत्यक्षमेव दृश्यते ॥
I
यस्याशुगः प्रसरदाशुगवन्निषङ्गात्कर्षागमेषु लघुहस्ततया कदाचित् । नालक्ष्यताक्षिभिरपि प्रतिपक्षलक्षै
रङ्गे लगन्पुनरबुध्यत युद्धमूर्ध्नि ॥ ३० ॥
यस्य साहेराशुगो बाणः । जातावेकवचनम् । युद्धमूर्ध्नि संग्राममस्तके प्रतिपक्षलक्षैः परिपन्थिकपृथिवीवासवशतसहस्रैः लघुहस्ततया शीघ्रवेधित्वेन निषङ्गात्तूणीरात् आकष आकर्षणानि तथा आगमा आगमनानि तेषु कदाचिदपि कस्मिन्नपि समये प्रस्तावे
५६