SearchBrowseAboutContactDonate
Page Preview
Page 501
Loading...
Download File
Download File
Page Text
________________ काव्यमाला। अस्तम्भि वैरिनृपदोयुगदण्डदर्पः सर्पेन्द्रदर्प इव गारुडिकस्य मन्त्रैः ॥ २६ ॥ धरेन्दोर्वसुमतीवासतेयीपतेः प्रसमरैः सकलदिक्चक्रविस्तरणशीलैरश्रान्तमनवरतवाद्यवादकमानवैर्दण्डैर्वाद्यवादनयष्टिभिनिहतानि ताडितानि तथा आहवे संग्रामाङ्गगेषु वादनीयानि वादयितुमुचितानि यानि वाद्यानि रणतूराणि अन्यवादित्राणि वा तेषां खरैर्निर्घोषैः कर्तृभिःरिणोऽकबरसाहेरसहजा एव नृपाः पार्थिवास्तेषां दोर्युगदण्डावां. भुजयामलकुटानां जान्वायतत्वेन दण्डाकारत्वाद्दण्डास्तेषाम् अथ वा बाहुद्वन्द्वानां सै.' न्यानां च चक्रगरुडादिव्यूहानां वा अश्वानां प्रतिनृपतियानरत्नतुरङ्गमाणो वा उपलक्ष. णादश्ववाराणां गजरथारोहिणां च । 'दण्ड: सैन्ये दमे यमे ॥मानव्यूहे ग्रहे भेदेष्वश्वेऽर्कानुचरे मथि । प्रकाण्डे लकुटे कोणे चतुर्थोपायवर्गयोः ॥' इत्यनेकार्थः । दोऽभिमानोऽस्तम्भि स्तम्भ्यते स्म निराकृतः । जडीकृताः सर्वेऽपीत्यर्थः । कैरिव । मन्त्ररित्र गारुडं स्थावरजङ्गमविषनिवारणप्रवणमन्त्रतत्रादिशास्त्रमर्थ्यते वेत्ति वेति गारुडिकः तस्य मन्त्रैर्जाङ्गुलीप्रमुखैः सपंन्द्रस्य नागराजस्य दो गर्वो विषवेगाहंकारः स्तम्भ्यते ॥ यत्कीर्तिविद्विषदकीर्तिहतप्रतीपा- . सृक्पतिजदुतरणिद्रुहिणाङ्गजाभिः। , जन्यावनीयदवनीशशिनस्त्रिवेणी सङ्गः किमाविरभवत्रिदिवाभिकानाम् ॥ २७ ॥ यस्यासावकब्बराभिधानस्यावनीशशिनो वसुधासुधांशोर्जन्यावनी संग्राममेदिनी । उत्प्रेक्ष्यते-त्रिदिवाभिकानां सुरलोकाभिलाषुकाणाम् । 'कामुक: कमिता कम्रोऽनुकामयिताभिकः' इति हैम्याम् । वीराणां तिमृणां वेणीनां तरङ्गिणीप्रवाहानां सङ्गो मिलनं गङ्गायमुनासरखतीसङ्ग इव आविरभवत् प्रकटीबभूव । वनिकाभिः कृत्वा यस्य साहेः कीर्तिः प्रसरधशस्तथा विद्विषामकब्बरपातिसाहिपुगे रणे भग्नानां प्रत्यर्थिपार्थिवानामकीर्तिरपयशः । तथा च हता अकब्बरनरेन्द्रेणैव रणाङ्गणे व्यापादिता ये प्रतीपाः परिपन्थिप्र. थिवीनाथास्तेषामसूजां रुधिराणां पतयः श्रेणयस्ता एव जहोर्विष्णोस्तथा तरणेार्त. ण्डस्य । तथा च द्रुहिणस्य ब्रह्मण: अङ्गजा नन्दिन्यः। जदुनन्दना गङ्गा तरणितनया यमु. ना दुहिणोद्वहा सरखती । सरखती सरित्परसमये शोणसलिला प्रोच्यते । ततोऽमृगानयनम् । ताभिः एता एकत्रमिलितास्त्रिवेणीसङ्गोऽजनि ॥ यसंप्रहारहंतहास्तिकमस्तकान्त निष्पातिशुक्तिजततियुधि पौस्फुरीति । दन्तावली प्रकटिता शमनेन जन्या पाने विरोधिरुधिरासवपायिनेव ॥ २८ ॥
SR No.002262
Book TitleHeer Saubhagya Mahakavyam
Original Sutra AuthorN/A
AuthorDevvimal Gani, Shivdatta Pandit, Kashinath Sharma
PublisherKalandri Jain S M Sangh
Publication Year1985
Total Pages980
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy