SearchBrowseAboutContactDonate
Page Preview
Page 492
Loading...
Download File
Download File
Page Text
________________ १० सर्गः] हीरसौभाग्यम् । १३१ महीमन्तरालभूमी विभूषयति शोभा लम्भयति । मेवातमण्डलमध्ये श्रीनेमिनाथजन्मस्थानं कुशावर्तदेशोऽस्तीत्यर्थः ॥ युग्मम् ॥ संसेवितो द्विरसनैरसुराश्रयश्च ख्यातो रसातलतया नरकानुषङ्गी । एतद्विगानमपनेतुमिदंमिषेण ___ वासो व्यधायि किमु भोगिगृहेण भूमौ ॥ ५ ॥ भोगिगृहेण नागलोकेन इदंमिषेण अस्य दिल्लीदेशस्य दम्भेन कपटेन भूमौ मही. मण्डले वासः स्थितिळधायि विहिता । उत्प्रेक्ष्यते-एतदिहैव जनैरभिधीयमानमीदृशं वा विगानमपवादमपनेतुं निवारितुमिव । एतत्किम् । यदसौ भोगिगृहो द्विरसनैर्भुजगैः 'खलैश्च संसेवित आश्रितः । च पुनरसुराणां दैत्यानामाश्रयः स्थानम् । 'असुरा दिति. दनुजाः पातालौकासुरारयः' इति हैम्याम् । पुनः रसातलमित्यनिष्टवाक्यम् । धनपालोऽप्याह-'रसातलं यातु यदत्र पौरुषम्' इति । तत्त्वेन ख्यातः प्रथितः पुनर्नरकस्य नानोऽसुरविशेषत्य । सप्तनरकानां दुर्गतीनामनुषको मिलनं यस्य ॥ तन्निर्जयोद्यतनिजस्य भयादवेत्य ___ यातं प्रणश्य बलिसद्म तलेऽचलायाः । ... · पृष्ठे विलग्न इव तं विजिगीषुरेष खर्गः क्षितावुपजगाम मिषादमुष्य ॥ ६ ॥ तद्विजिगीषुस्तद्बलेः सद्म नागलोकं विचेतुमिच्छुः पराभवनशीलः । अत एव पृष्ठे पश्चाद्विलमः अमुष्य दिल्लीदेशस्य मिषाद्याजात् । उत्प्रेक्ष्यते-एष प्रत्यक्षः खगों देवलोकः क्षिती क्षोणीमण्डले उपजगाम समागतः । किं कृत्वा । तस्य बलिसद्मनो निर्जये परिभवनविधाने उद्यतस्य उद्यम विनिर्मिमाणस्य उत्सुकस्य वा । निजस्यात्मनो भयादर्यात्वर्गस्य भीतेरचलागः पृथिव्यास्तले अधस्ताद्भागे प्रणश्य यातं प्रतिभ्रष्टं बलिसद्म नागलोकमवेस विज्ञाय । पूर्व हि बलिसद्म भूलोकखौंकयोरुपरिष्टादासीत्-इति कवि. समयः । यदुक्तं नैषधे-'बलिसद्म दिवं स तथ्यवागुपरि माह दिवोऽपि नारदः' इति । पश्चादद्वैतविभूतिजाताबलवत्तया क्रतुभुजां भुवनेनाभिभूतं भूतले गतमित्यर्थः ॥ यः पद्मनन्दन इवास्ति हिरण्यगर्भो रम्याप्सरा हरिरिवाच्युतवत्सलक्ष्मीः । रत्नाकरोऽम्बुधिरिवारिरिवात्मयोने दुर्गान्वितः पविरिवासहजैरजेयः ॥ ७ ॥ यो देशः पद्मनन्दनो विरश्चिरिव । 'पद्मनन्दनसुतारिरंसुता' इति नैषधे । हिरण्यं
SR No.002262
Book TitleHeer Saubhagya Mahakavyam
Original Sutra AuthorN/A
AuthorDevvimal Gani, Shivdatta Pandit, Kashinath Sharma
PublisherKalandri Jain S M Sangh
Publication Year1985
Total Pages980
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy