________________
.९ सर्गः] हीरसौभाग्यम् ।
४२७ उपास्यते स्म । अम्बुषावपि मन्यादयः सर्वेऽपि पदार्थाः सन्ति । ऐरावणोच्चैःश्रवसोस्तत्रोत्पमत्वात् जले गजाश्वानां संभवाद्वा ॥
इन्द्रनीलमणिशालिजालकाश्चन्द्रकान्तकृतचन्द्रशालिकाः । भूतलाभ्युदयिनो बभासिरे शारदीनशशिमण्डला इव ॥ १४९ ॥ यत्र गन्धारनगरे इन्द्रनीलमणिभिः मरकतादिनीलरत्नैः शालन्ते शोभन्ते इत्येवंशीला जालका गवाक्षा यासु तादृश्यः चन्द्रकान्तैश्चन्द्रमणिभिः कृता निर्मिता चन्द्रशालिका अर्थात्सौधानां शिरोगृहाणि उपरितनभूमिका वभासिरे भासन्ते स्म दीप्यन्ते स्म । उत्प्रेक्ष्यते-भूतले महीमण्डले अभ्यागत्योदयन्त्युद्गच्छतीत्येवशीलास्तथा शारदीनाः प्रसरत्पयोधररोधापगमप्रोल्लसत्प्रचुरचन्द्रिकाकलिताः शरत्कालसंबन्धिनी: शशिनामिति सार्थकं नाम कलङ्ककालिमाकलितचन्द्राणां मण्डला बिम्बा इव । मण्डलशब्दस्त्रिषु लिङ्गेषु । चन्द्रशालिकासु लक्ष्मसदृशेन्द्रनीलगवाक्षाः ॥ इति गन्धारवर्णनम् ॥
महैर्महीयोभिरनेकनागरैः प्रवेशितः सूरिपुरंदरः पुरम् । दिग्जैत्रयात्रासु निजानुगीकृतप्रतीपभूमीपतिसार्वभौमवत् ॥ १५० ॥
अतिशयेन महान्तो महीयांसस्तैर्महीयोभिरत्यभ्यधिकैर्महैरुत्सवैः कृत्वानेके गणनातीता नागराः पुरजनास्तैः सूरिपुरंदरो हीरविजयसूरिवासवः पुरं गन्धारनगर प्रवेशितः पुरे प्रवेशः कारितः । किंवत् । दिशां पूर्वपश्चिमदक्षिणोत्तराणां चतसृणां जैत्रासु जयनशीलासु यात्रासु सेनाभिः समं शात्रवेष्वभिगमोऽभिषेणनं तेषु निज. स्यात्मनोऽनुगीकृताः सेवकभावं लम्भिताः प्रतीपाः पूर्व प्रतिकूला विजये कृते च कथंचिदानुकूल्यभाजः भूमीपतयो राजांनो येन तादृक् सार्वभौमवत् । यथा चक्रवर्ती महामहैः कृत्वा नागरैर्नगरं प्रवेश्यते ॥ .. गणकैरविणीरमणः श्रमणैर्बहुभिः सह तत्पुरमध्यवसत् ।
कलभप्रकरैरिव गन्धगजो जलबालकभूधरभूवलयम् ॥ १५१॥ श्रमणैः साधुभिः सार्धं गणे तपागच्छे आह्लादकत्वेन कैरविणीनां कुमुदिनीनां रमणः प्राणनाथश्चन्द्रो गच्छनायकः तद्गन्धाराभिधानं नगरमध्यवसत् आश्रयति स्म । गन्धारबन्दिरे तस्थिवानित्यर्थः । क इव । गन्धगज इव यथा कलभैस्त्रिंशदब्दकैः प्रौढैर्गजव्रजैरुपलक्षणादिशतिवर्षीयैर्वित्कैः दशवार्षिकैः पोतैः पञ्चवार्षिकैर्बालैः इत्यादिभिरिदैः समम् । 'पञ्चवर्षों गजो बालः स्यात्पोतो दशवार्षिकः । वित्को विंशतिवर्षः स्यात्कलभ. स्त्रिंशदन्दकः ॥ इति हैम्याम् । गन्धहस्ती जलबालको विन्ध्यः स एव भूधरः पर्वतस्तस्य भूवलयं वनगहनपृथिवीपीठमधिवसति विन्ध्याद्रिवनखण्डे तिष्ठति । 'विन्ध्यस्तु जलबालकः' इति हैम्याम् ॥
अमरपुरीकृतलजे तत्र विजेतुं बलिगृहे सज्जे । प्रावृषि दुग्धपयोधौ मधुपरिपन्थीव तस्थौ सः ॥ १५२ ॥