________________
४२६
काव्यमाला।
अथो विहारप्रतिष्ठादीक्षाद्यनन्तरं कस्मिंश्चिदकब्बरसाहेराकारणसमये गन्धारनगरे चतुर्मासी तिष्ठासोः सूरेर्गन्धारवर्णनं किंचित्
अथो लाटलक्ष्मीललामायमानं पुरं वार्धितीरेऽस्ति गन्धारनाम । किमुद्वेज्यमाना जलैरम्बुराशेः प्रतीरं पुरी संश्रिता शाङ्गपाणेः ॥ १४६ ॥ लाटस्य लाडनान्नो मण्डलस्य लक्ष्म्या ललामायमानं तिलकमिवाचरत् वार्धेः समुद्रस्य तीरं तटं तत्र गन्धार इति नाम यस्य तादृशं पुरं नगरमस्ति विद्यते । उत्प्रेक्ष्यतेअम्बुराशेः कल्लोलमालिनः प्रसरत्तुङ्गतरङ्गरङ्गविरलजलैरुद्वेज्यमाना अत्युद्वेगं प्राप्यमाना शाईपाणेर्नारायणस्य पुरी द्वारका नगरी विष्णोः कुत्रापि गते सति समुद्रेणाप्लाव्य खसलिलमध्ये गृहीता, अत एव पानीयोद्वेगात्प्रतीरं तटं संश्रिता पानीया(हिरागत्यात्र स्थितेव ॥
निधानेशरम्भाकुमारीगणेशान्दधानेन गाङ्गेयराजेश्वरांश्च । । । जिता येन वखोकसारा स्वलक्ष्म्या हियेवाश्रिता शंभुशैलस्य मौलिम् १४७
गन्धारनगरेण खलक्ष्म्या निजवैभवेन जिता परिभूता सती वखोकसारा धनदपुरी हियेव त्रपातिरेकादिव शंभुशैलस्य मौलि मस्तकमुपरितनशिखरमाश्रिता भेजुषी । येन किं कुर्वाणेन । दधानेन । कान् । निधानानां निधीनामीशाः खामिनो निधिपतयः तास्तथा रम्भाः कदलीः कुमारी: कन्यकाः तथा गणानां जनसमुदायानामीशा गणनायकास्तान् तथा गाङ्गेयं वर्ण तथा राजेश्वरं देशाधिपति राज्यलक्ष्मीवन्तमीश्वरा गजप्रमाणद्रविणधारिण: तान् बिभ्राणेन । अलकापक्षे तु सर्वेऽप्येकैकाः । निधानेशो धनदः, तथा रम्भानाम्नी धनदाङ्गजनलकूबरपत्नी । 'अस्मान्किमश्रोत्रसुधां विधाय,रम्भा चिरं भामतुला नलस्य । तत्रानुरक्ता तमनाप्य भेजे तन्नामगन्धानलकूबरं सा ॥' इति नैषधे । कुमारी पार्वती गणेशो विघ्ननायकः गङ्गाया अपत्यं गाङ्गेयः खामिकार्तिकः । 'गङ्गोमाः कृत्तिकासुतः' इति हैम्याम् । तथा 'गाङ्गेयो गुहभीष्मयोः' इत्यनेकार्थः । राजानो यक्षाईश्वरः शंभुस्तान्बिभ्रती ॥ स्फूर्त्या मणीकम्बुवराटमुक्तिका प्रवालमातङ्गतुरङ्गमश्रियाम् । विहेलितेनाम्बुधिना द्विवेलं वेलाच्छलाद्यन्नगरं न्यषेवि ॥ १४८ ॥ मणयः चन्द्रकान्ताद्याः सामान्येन सर्वजातिजानि रत्नानि कम्बवः शङ्खाः वराटा रत्नमु. ख्यानि हीरका कपर्दा वा मुक्तिका मुक्ताफलानि । 'बहुकम्बुमणीवराटकागणनाटत्करकर्कटोत्करः' इति नैषधे । हट्टेषु कम्बवोऽपि दृश्यन्ते। प्रवाला विद्वमा मातङ्गा हस्तिनः तुरङ्गमा अश्वाः श्रीर्धनधान्यादिविविधलक्ष्मीस्तासां स्फूर्त्या अत्युद्धरवैभवमरेण कृत्वा वि. हेलितेनावगणितेनाभिभूतेनाम्बुधिना समुद्रेण द्वे वेले वाराववसरौ यत्र । 'वेला वाराववसरः प्रस्तावः' इति हैम्याम् । तथा 'वेलय स्याद्वृद्धिरम्भसः' । द्विवेलमिति क्रियावि. शेषणम् । वेलाच्छलाजलवृद्धिकपटात् । वेलागममिषेणेत्यर्थः । यन्नगरं गन्धारपुरं न्यषेवि