SearchBrowseAboutContactDonate
Page Preview
Page 483
Loading...
Download File
Download File
Page Text
________________ १२२ काव्यमाला । स्पृहयद्विरिवोद्वोढुं सिद्धिमुग्धमृगीदृशम् । श्राद्धैरस्य तपस्यायाः प्रारभ्यत महामहः ॥ १२९ ।। प्राच्यैौर्जरैश्च श्राद्धैःश्रावकरस्य मेघजीमुनेस्तपस्याया दीक्षाया महामहः महोत्सवः प्रारभ्यत प्रारब्धः । उत्प्रेक्ष्यते-सिद्धिर्मुक्तिरेव मुग्धमृगीहक् कमनीयकामिनी ताम् । 'मुग्धो मूढे च रम्ये च' इत्यनेकार्थः । उद्वोढुं परिणेतुं स्पृहयद्भिः कामयमानैरिव ॥ पूरिताशेषदिग्ध्वानढक्का तयशसामिव । तन्महो भूपदिग्जेत्रयात्राढक्काक्वणा इव ॥ १३० ॥ कुलशैलपयोराशिप्रतिध्वनिविधायिनः। वाद्यमानघनातोद्यनादाः प्रादुरबीभवन् ॥ १३१ ॥ (युग्मम्) वाद्यमानानि ताज्यमानानि वादित्रवादिकैर्जनैः करैर्दण्डेन वा निहन्यमानानि धनानि प्रभूता ने आतोद्यानि तूर्याणि तेषां नादाः शब्दाः प्रादुरबीभवन् प्रकटीभवन्ति स्म । किंभूताः । कुलशैलाः मेरुमन्दरकैलाशादिकाः कुलाचलाः तथा पयोराशिः समुद्रस्तेयु ये प्रतिध्वनयः प्रतिशब्दास्तान्विदधते प्रणयन्तीत्येवंशीलाः । उत्प्रेक्ष्यते तद्यशसां तस्य मेघजीऋषेः यशसां कीतीनां पूरिता निर्भरं भृता अशेषाः समस्ता दिशो दशाप्याशा येस्तादृशा ध्वानाः शब्दा यासां ता ढक्का यशःपटहानि खाना इव । अथवा । तस्य मेघजीमुनेर्यश एव भूपो राजा तस्य दिशां समस्त हरितां जयनशीला यात्रा वैरिजजोपरि विजयकृते प्रस्थानं तस्य तदर्थ वा ढक्काक्वणा निःखाननिःखना इव । राज्ञां हि प्रयाणेषु निःखाना वाद्यन्ते, तद्धनिभिश्च सर्वेऽपि सजीभवन्तिः॥ युग्मम् ॥ वदान्यैः श्रीदवद्दानं ददेऽगीयत गायनैः । अनर्ति नर्तकैरुच्चैबन्दिभिर्बिरुदावली ॥ १३२ ॥ तत्र मेघजीऋषिदीक्षासमये श्रीदवद्धनदैरिव वदान्यैर्दानशौण्डैर्विश्राणनशीलैर्दानं ददे दत्तम् पुनर्गायनैर्यन्धर्ववर्गमधुरध्वनि अगीयत । पुनर्नर्तकर्नटैस्ताण्डवाडम्बरविधायिभिरनर्ति नृत्यं निर्मितम् । पुनः बन्दिभिर्मङ्गलपाठकैबिरुदानामावलिः श्रेणि: उच्चैः कथिता ॥ वैधेयवन्निरीयान्धकूपात्कूपे पतामि किम् ।। परपक्षानगणैः स्वस्य स्वस्याहूतिकृतस्तदा ॥ १३३ ॥ अवमत्येति दीक्षां स श्रीहीरविजयान्तिके । सत्याकृतिमिवादत्त संगमे सुगतिश्रियाम् ॥ १३४ ॥ (युग्मम् ) स मेघजीमुनिः श्रीहीरविजयसूरेरन्तिके संनिधौ पार्श्वे दीक्षा जैनतपस्यां जग्राह गृहाति स्म समादत्तवान् । कामिव । सत्याकृति सत्यकारमिव । लोके 'संचकार' इति प्रसिद्धः । कासाम् । सुगतीनां खर्गापवर्गफलदानां श्रियां लक्ष्मीणाम् । उत्प्रेक्ष्यते वा
SR No.002262
Book TitleHeer Saubhagya Mahakavyam
Original Sutra AuthorN/A
AuthorDevvimal Gani, Shivdatta Pandit, Kashinath Sharma
PublisherKalandri Jain S M Sangh
Publication Year1985
Total Pages980
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy