SearchBrowseAboutContactDonate
Page Preview
Page 482
Loading...
Download File
Download File
Page Text
________________ ९ सर्गः] - हीरसौभाग्यम् । ४२१ हन्नाददानः । पुनः किं कुर्वन् । शौर्यात् शूरत्वासिंहिकाया अपत्यानि सैहिकेयाः के. सरिणः जयन्पराभवन् पराक्रमन् सिंहव्याघ्रादिश्वापदानिघ्नन् । सूर्यस्तु प्रतीच्यां म. न्दायमानमहाः सप्ताश्व एव राज्ञः श्रियं दिशन् । 'पुपोष वृद्धि हरिदश्वदीधितेरनुप्रवेशादिव बालचन्द्रमाः' इति रघौ । तथा सैहिकेयात्वर्भानोः सकाशादभिभवं लभमानः । अत एवाकब्बरसाहेः सूर्यजयो युक्त एव ॥ युग्मम् ॥ इत्सकब्बरः ॥ साहिना सार्धमभ्येयुः प्राच्याः केऽपीह नैगमाः। शर्वरीसार्वभौमेन नभोमागें ग्रहा इव ॥ १२५ ॥ साहिना अकबरपतिसाहिना साथै केऽपि केचन प्राच्याः पूर्वदिक्संबन्धिन: नैगमा वणिजो व्यवहारिणः इह गुर्जरमण्डले अभ्येयुरागताः । के इव । ग्रहा इव । यथा -शर्वरीसार्वभौमेन विधुना सार्ध नभोमार्गे गगनाङ्गणे ग्रहाः समायान्ति ॥ तेऽप्यासशासने जैने लीना मीना इवाम्बुनि । . स्थानसिंहादिमा मान्या अमात्या इव भूपतेः ॥ १२६ ॥ ते नेगना अपि जैने शासने भगवत्संबन्धिनि तपागच्छानिधाने शासने लोना निलीयमानमानसाः एकतानीकृतचित्ताः सन्ति । क इव । मीना इव । यथा अम्बुनि पानीयविषये लीनास्तिष्ठन्ति । किंभूताः । स्थानसिंहः रामासाहसूनुः आदिमः प्रथमो मुख्यो वा येषु ते तादृशाः । पुनः किंभूताः । महीपतेरकव्वरपातिसाहेान्या माननीयाः । क इव । अमात्याः सचिवा भूपतेर्माननाही भवन्ति ॥ इति प्राचीनश्राद्धाः ॥ अरंतुदं कुपक्षाणामिवासेचनकं सताम् । परिव्रज्योत्सवं कर्तु कासन्तो मेघजीमुनेः ॥ १२७ ॥ निशितायसशल्यानि हृदि मिध्यादृशामिव । आनयन्ति स ते तुर्याण्यकम्बरमहीहरेः ॥ १२८ ॥ (युग्मम् ) ते प्राचीनाः श्राद्धा अकब्बरनाम्नो महीहरेः पृथ्वीपुरंदरस्य तुर्याणि वादित्राण्यानयन्ति स्म । उत्प्रेक्ष्यते-मिथ्यादृशां कुवादिनां हृदि हृदये वक्षसि निशितानि तीक्ष्णानि आयसानि लोहमयानि शल्यानि त्रिशूलानीव । 'हृदि शल्यमिवार्पितम्' इति रघ । 'अतिपीडाकारित्वात्रिशूलम्' इति तदृत्तिः । तथा 'परस्परोल्लासितशल्यपलवे' इति नैषधे । 'मिथ उल्लालितकुन्ता येऽग्रे' इति तद्वतिः । ततः शल्यानि हुन्ता इव । तथा 'शल्यं शत्रशलाकयोः' इत्यनेकार्थे । शस्त्राणीव वा । प्राच्या: किं कुर्वन्तः । मेघजीमुनेः प्रव्रज्याया दीक्षाया उत्सवं महाहवं कर्तु निर्मातुं काइन्तः इहमानाः। किंभूतं परिव्रज्योत्सवम् । उ. त्प्रेक्ष्यते- कुपक्षाणां लुम्पाकादीनां कुमतभाजामरंतुदं मर्मव्यथकमिव । पुनरुत्प्रेक्ष्यतेसतां साधूनां जैनानां सुदृशामासेवनकमाप्यायकमिव । 'तदासेचनकं यस्य दर्शनाहक तृप्यति' इति हैम्याम् । अत्र लालाघण्टान्यायेनोभयत्रापि इव संबध्यते ॥ युग्मम् ॥ इति वाद्यानयनम् ॥
SR No.002262
Book TitleHeer Saubhagya Mahakavyam
Original Sutra AuthorN/A
AuthorDevvimal Gani, Shivdatta Pandit, Kashinath Sharma
PublisherKalandri Jain S M Sangh
Publication Year1985
Total Pages980
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy