________________
४२०
काव्यमाला।
व्रतं जिघृक्षुः सोऽकासीद्धीरसूरेः समागमम् ।
श्रीसुव्रतजिनस्येव कार्तिकः श्रेष्ठिपुङ्गवः ॥ १२१ ॥ स मेघजीऋषिः व्रतं प्रव्रज्यां जिघृक्षुः गृहीतुमिच्छुः सन् हीरसूरहीरविजयसूरीश्वरस्य समागममकमिपुरे पादावधारणं समागमनमकासीत् वाञ्छति स्म । क इव । कार्तिक इव । यथा श्रेष्ठिनां श्रीदेवताप्रतिमाङ्कितवद्धशिरःसुवर्णपट्टानां नगराधिकारिमुख्यानां मध्ये पुङ्गवः प्रधानः कार्तिकनामा श्रेष्ठी सुव्रतजिनस्य श्रीमुनिसुव्रतस्वामिनः आगमनं काङ्कति स्म ॥
विज्ञाय हीरसूरीन्दुराशयं मेघजीमुनेः।
आगादहम्मदाबादे माकन्दे कीरवत्क्रमात् ॥ १२२॥ . हीरसूरीन्दुः हीरविजयसूरिशर्वरीसार्वभौमः क्रमाद्रामानुग्रामादिविहारस्य परिपाट्या अहम्मदाबादे गुर्जरमण्डल विपुलाखण्डल निवासस्थानत्वेन राजनगरे आगात् आगच्छति स्म । स्वयमागत्य अकमिपुरे समवस्त इत्यर्थः । किंवत् । कीरवत् । यथा माकन्दे सहकारमहीरुहे शुकः समेति । किं कृत्वा आगतः । मेघजीमुनेराशयं खपाचे संयमग्रहणाभिप्रायं विज्ञाय ज्ञात्वा स्वतः परतो वा अवसाय ॥ इति हीरविजयसूरेरकमिपुरीगमनम् ॥
प्राच्यामिव प्रतीच्यां च महोऽभ्यधिकमावहन् । परोलक्षान्दधत्ताान्गृह्णन्राज्ञां श्रियं पुनः ॥ १२३ ॥ सैंहिकेयाञ्जयशौर्याद्योऽजैषीत्पूषणं श्रिया.। ...
स गुर्जरेप्वथागच्छत्साहिः श्रीमदकब्बरः ॥१२४॥ (युग्मम्) अथास्मिन्व्यतिकरे सकलवसुधावलयप्रसिद्धः श्रीमाननेकजनपदनायकाधिपत्याद्वै. तलक्ष्या लक्षितः साहिः पातिसाहिः गुर्जरेषु-आगच्छत्समागतः । स कः । योऽकबरसाहिः श्रिया वैभवेन कृत्वा पूषणं सहस्रकिरणमजैषीजयति स्म पराबभूव । 'नमसितुमना यन्नाम स्यान संप्रति पूषणम्' इति नैषधे । किं कुर्वन् । प्राच्या पूर्वस्यां दिशि इव प्रतीच्या पश्चिमायामप्याशायामभ्यधिकमतिशायितमं प्रतिपक्षपक्षलक्षदुःसहं स्वमहो निजप्रतापमावहन् आकलयन् । पुनः किंभूतः । लक्षात्परे परोलमा लक्षशस्ता.
ान् जात्यतुरङ्गमान् अर्थादश्ववारान् दधद्धारयन् । कटके कति वाजिनः सन्ति लक्षं द्विलक्षी त्रिलक्षी वा इति लोकभाषेव वर्तते । पर तावन्तोऽश्ववारा एव ज्ञेया इत्युक्तः । पुनः किं कुर्वन् । राज्ञामपरापरपृथ्वीपालानां श्रियं संपदं देशनगरप्रामादिविभूति गु
१. पाणिनीयमते तु 'नाज्झली' इति. सूत्रस्थ 'पारस्करादित्वात्सुट्' इति, केयटा. नुसारेण सुट एव संभवे तल परादित्वेन पदान्तवाभावाद्वत्वोत्वयोरप्राप्तौ 'परस्लक्षान्' इति भवेन्.