SearchBrowseAboutContactDonate
Page Preview
Page 484
Loading...
Download File
Download File
Page Text
________________ ९ सर्गः] हीरसौभाग्यम् । ४२३ त्रिदिवशिखराणां सत्याकृतिमिव । किं कृत्वा । इत्यमुना प्रकारेण तदा तस्मिन्दीक्षाप्रहमहोत्सवसमये परपक्षान् परगच्छीयान् खरतरस्तनिकादीनवमत्यागणयित्वा । वि. मुच्येत्यर्थः । किंभूतान् परपक्षान् । खस्यात्मनः गणैर्गच्छेस्तस्य मेघजीमुनेराहूतिकृतः आकारणविधायिनः । आकारणं सूरिपदादिप्रदानादिना लोभयित्वा हठं कुर्वन्तीति तान् । इति किम् । यदहं वैधेयवन्मातृशासितो मूर्ख इव ज्ञानवानप्यज्ञानवानिव अन्धकूपात् ध्वान्तोपचितान्तरावटान्निरीय निर्गत्य पुनर्द्वितीयवारं कूपे अपरस्मिन्कूपे किं कथं प. तामि झम्पामि । अपि तु नैव पतिष्यामीत्येवं विचार्येत्यर्थः ॥ युग्मम् ॥ . उद्दयोतं शासने तेने विजयं दुर्दशां च यत् । इतीवास्य व्यधात्सूरिरुद्दयोतविजयाभिधाम् ॥ १३५ ॥ . सूरिहीरविजयप्रभुः । उत्प्रेक्ष्यते- इति हेतोरस्य मेघजीऋषेः उद्दयोतविजय इत्य. भिधां नाम व्यधाञ्चकार । इति किम् । यत्कारणादसौ त्यक्तलुम्पाकमताधिपत्यः शासने उद्दयोतं प्रकाशं तेने विस्तारयामास । च पुनर्दुर्दशां कुपक्षाणां कुमतानां विजयमवगणनारूपं विदधे निर्मितवान् । पराभवं विहितवानित्यर्थः ॥ पादपीठलुठन्मूर्धा बद्धाञ्जलिरसौ विभुम् । श्रीनाम इव नाभेयं स्वयंभुवमबीभजत् ॥ १३६ ॥ असौ उद्दयोतविजयमुनिः विभुं हीरविजयसूरीन्द्रमबीभजत्सिद्धान्तोक्कविधिवद्विनयविधानादिप्रकारेणातिशयेन भजते स्म निषेवते स्म । तदेव दर्शाते-किंभूतः । पादपीठे पदासने लुगन्मिलन्मूर्धा मौलिर्यस्य । पुनः किंभूतः । बद्धाञ्जलि: ललाटपट्टघटितकरकमलकुङ्मलः । क इव । श्रीनाभ इव । यथा श्रीनाभनामा गणधरः नाभेर्नाभिनामनृपस्यापत्यं संतानम् । नन्दन इति यावत् । नाभेय: श्रीऋषभदेवस्तं वृषभं खयंभुवं तीर्थकरं भजते स्म । विशेषणे पूर्ववत् । पादपीठे लुठन् संघटं प्राप्नुवन् मूर्धा मस्तकं यस्य । तथा बद्धो रचितोऽञ्जलि: पाणिद्वययोजनं येन ॥ इति मेघजीऋषिमहः ॥ . पारीन्द्र इव सूरीन्द्रः प्रणिहत्य तमोद्विपम् । नृणां व्यश्राणयबोधि मुक्तापतिमिवार्थिनाम् ॥ १३७ ॥ .. सूरीन्द्रो हीरविजयगुरुः नृणां भव्यप्राणिनां बोधिं सम्यक्त्वं व्यश्राणयद्ददाति स्म । कामिव । मुक्तापतिमिव । क इव । पारीन्द्र इव । यथा केसरी अर्थिनां याचकानां मुक्तानां खहारितकुम्भिकुम्भमध्यनिष्पतन्मौक्तिकानां श्रेणी विश्राणयति प्रयच्छति । किं कृत्वा । प्रणिहत्य व्यापाद्य । किम् । तमः अज्ञानं पापं वा तद्रूपं श्यामत्वात्तत्सदृशं द्विपं हस्तिनम् ॥ मह्या विहरति स्वैरं श्रीमत्सूरिपुरंदरे । दानवर्षितया भव्यव्रजेनानेकपायितम् ॥ १३८ ॥
SR No.002262
Book TitleHeer Saubhagya Mahakavyam
Original Sutra AuthorN/A
AuthorDevvimal Gani, Shivdatta Pandit, Kashinath Sharma
PublisherKalandri Jain S M Sangh
Publication Year1985
Total Pages980
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy