________________
९ सर्गः]
हीरसौभाग्यम् ।
४११
ततः संघाग्रहानन्तरं प्रभुहीरविजयसूरिः खस्यात्मन आशयमभिप्रायं संवदत्यनुकरोयेवंशीलं यादृशं गुरुचित्ते तादृश एव संघाग्रह इत्यर्थः । तद्वचः संघवचनं प्रपेदे प्रतिपन्नवान् । किंवत् । आप्तवत्। यथा जिनेन्द्रः व्रतव्यतिकरे दीक्षाग्रहणावसरे लोकस्य पञ्चमकल्पस्य अन्तः प्रान्तोऽवसानं तत्र तमिश्रराजिकान्तरालशालिविमानेषु । अर्चिअर्चिमालि-वैरोचन-प्रभंकर-चन्द्राभ-सूर्याभ-शुकाभ-सुप्रतिष्ठाभ-अरिष्टाभिधानेषु भवा लौकान्तिकाः । ते च नवविधाः । यथा-सारखत-आदित्य-वहि-वरुण-गर्दतोतुषित-अव्यावाध-आग्रेय-अरिष्टनामानो देवास्तेषामुक्तं कथितमिवाङ्गीकृतवान् ॥
सूरीन्द्रेणाथ दैवज्ञैर्मुहूर्त निरधार्यत ।
एतन्महोदयस्येव प्रारम्भप्रथमक्षणः ॥ ८५ ॥ अथ संघाग्रहाङ्गीकारानन्तरं सूरीन्द्रेण दैवज्ञैर्मोहूर्तिकैः साधै मुहूर्त दोषादिनिर्मुक्तशुभवासरवेलालग्नं निरधार्यत निश्चीयते स्म । उत्प्रेक्ष्यते-एतस्य जयविमलप्रज्ञांशस्य यो महोदयो महानभ्युदयः तस्य प्रारम्भस्य प्रथम आद्यः क्षणः अवसरः कालविशेषः पञ्चदशलवलक्षणः ॥.
शिल्पिभिः कारितः संधैर्मण्डपो यन्मुनीशितुः। . - पट्टश्रियं वरीतुं किं स्वयंवरणमण्डपः ॥ ८६ ॥ संधैः कमीपुरश्राद्धसमुदायैः कर्तृभिः शिल्पिभिवैज्ञानिकैस्तद्रचनचातुर्यैः कृत्वा साधनभूतैर्मण्डपो बहुजनाश्रयः कारितो निर्मापितः । उत्प्रेक्ष्यते-जयविमलनानो मुनीशितुर्निग्रन्थनाथस्य पट्टश्रियं वरीतुं सूरिपदलक्ष्मीमुद्वोढुं खीकर्तु किं खयंवरणमण्डपः ॥
एतद्व्यतिकरेऽनेककौतुकालोकलालसा । : त्रिलोकी चित्रदम्भेन मण्डपे किमुपेयुषी ॥ ८७ ॥ एष चासौ व्यतिकरश्च एतद्व्यतिकर आचार्यपदप्रदानावसरस्तस्मिन्ननेकानि कौतुकानि आश्चर्याणि तेषामालोकने लालसा उत्सुका त्रिलोकी भुवनत्रयी चित्राणामालेख्यभावं लम्भितानामर्थात्सुरासुरनागराणां दम्भेन कपटेन कृत्वा । उत्प्रेक्ष्यते-तत्र मण्डपे किमुपेयुषी आगतेव ॥
विस्तीर्णोऽपि स संकीर्णो बभूवानेकनागरैः ।
भाविभट्टारकागण्यपुण्याकृष्टैरिवागतैः ॥ ८८ ॥ स संघजनानेमापितो विस्तीर्णोऽप्यतिविपुलोऽपि सन् मण्डपो जनाश्रयः अनेकैर्गणनातीतैर्नागरैर्जनपदग्रामसंनिवेशपुरनगरजननिवहैः संकीर्णः अतिलघीयः स्थानमिव बभूव संजातः । किंभूतैर्नागरैः । आगतैः समेतैः दशदिगन्तादपि तत्रोपनतैः । उत्प्रे. क्ष्यते-भाविनो भविष्यतो भारकस्य जयविमलसूरेरगण्यैः गुरनरादिभिरपि जेतुमशक्यः पुण्यैर्भागधेयैराकृष्टैर्वारिकाबद्धानीतैरिव उपायातैः॥