SearchBrowseAboutContactDonate
Page Preview
Page 473
Loading...
Download File
Download File
Page Text
________________ ४१२ काव्यमाला। निशि तारैरिवाकाशो प्रियमाणः म निर्भरम् । तन्महोमिलितै रेजे पौरैर्जानपदैर्जनैः ॥ ८९ ।। तस्य जयविमलप्रज्ञांशस्य पट्टप्रदानस्य महसि उत्सवे मिलितैरितस्तत आगत्येकी भूतैः । उत्सववाची महःशब्दः सकारान्तोऽप्यस्ति । यथा-'एनं महखिनमुपैहि सदारुणोच्चः' इति नैषधे । नलानलयोर्वर्णने । 'महखिनं तेजखिनमन्लमुत्सववन्तं च' इति तदृत्तिः। तथा 'महस्तेजस्युत्सवे च' इत्यनेकार्थः । पोरै गरैर्जानपंदैर्गुर्जरपाश्चाललाटसौराष्ट्राद्यनेकनीवृजन्मभिर्जनों के निर्भरं निचितं नीरन्ध्र भ्रियमाण: पूर्यमाणः स मण्डपो भाति स्म । कैरिव । यथा निशि तमिस्रायां रात्री तारकैरुपलक्षणानिखिल. ज्योतिःसंतानैम्रियमाण आकाशो गगनं भाति । चन्द्रोद्योते च केचिदृश्यन्ते, केचिन्न । तमिस्रायां दर्शयामिन्यां तु सर्वेऽपि स्फुटा एव लक्ष्यन्ते, तस्मादत्र तस्मिस्रा रात्रिरेवो. पादीयते नापरा॥ तीर्थेशितेव समवसरणं श्रमणाग्रणीः । श्रमणश्रेणिभिः सार्धमध्यासामास मण्डपम् ॥ ९ ॥ श्रमणानां तत्समयवर्तिनां संविनपक्षिणां शुद्धाचारवतां च श्रमणानां साधूनामग्रणीमुख्यो हीरविजयसूरिः श्रमणश्रेणिभिः मुनिमण्डलीभिः . सार्ध मण्डपमाचार्यपदप्रदान. स्थानमध्यासामास । क इव । तीर्थशितेव। यथा तीथेनाथः साधुभिः साधं समवसरणं धर्मदेशनमन्दिरमध्यास्ते । केनापि महर्धिकेन देवेन दानवेन वा रचितमिति शेषः ॥ पण्डिताखण्डलं श्रीमजयाद्यविमलाभिधम् । आह्वातुं प्रेषयामास मुनिमुख्यान्मुनीश्वरः ॥९१ ॥ मुनीश्वरो हीरभट्टारकः । जयेति पदमाद्यं यस्यास्तादृशी विमलेत्यभिधा नाम यस्य स जयविमलस्तमेव पण्डितेषु कोविदेषु आखण्डल इवाखण्डल इन्द्रस्तमाहातुमाकारयितुं मुनिमुख्यान्वाचकादिवाचंयमपुंगवान् प्रेषयामास प्रहिणोति स्म ।। अयमानीयतामीभिर्मण्डपं पण्डिताग्रणीः । उत्तराहैर्गन्धवाहैरम्वुवाहोऽम्बराकवत् ॥ ९२ ॥ अमीभिर्मुनिमुख्यैरयं जयविमलनामा पण्डिताग्रणीः कोविदकुत्ररः मण्डपं जनाश्रयमानीयत आनीतः । कैरिव । गन्धवाहैरिव । यथा उत्तरस्यां भवैरुत्तराहैः समीरणः । लोके 'सूरवाय' इति प्रसिद्धैः । अम्बुवाहो जलभरनिर्भरभृतमध्यो धाराधरः अम्बरस्याकाशस्याङ्कमुत्सङ्गमानीयत ॥ प्रभु बभाज तैः सार्घ साधुभिः साधुसिन्धुरः । युवराज इवानल्पैः सामन्तैः पितरं निजम् ॥ ९३ ॥
SR No.002262
Book TitleHeer Saubhagya Mahakavyam
Original Sutra AuthorN/A
AuthorDevvimal Gani, Shivdatta Pandit, Kashinath Sharma
PublisherKalandri Jain S M Sangh
Publication Year1985
Total Pages980
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy