SearchBrowseAboutContactDonate
Page Preview
Page 471
Loading...
Download File
Download File
Page Text
________________ काव्यमाला। इष्टमानस इव । यथा इष्टमानसो राजहंसः वर्षा वर्षासमयमुल्लङ्घय मानसात् खावास. कासारतः हर्षादानन्दाद्विहरति पृथिवीपीठपानीयप्रपूर्णानेकपङ्कजनिकुञ्जम जुलजलाशयेषु खैर विहरति । 'नृपमानसमिष्टमानसः' इति नैषधे ॥ क्रमेणाहम्मदाबादपुरे सूरिः समीयिवान् । नभोनीरधिवर्णिन्याः प्रतीरे सुप्रतीकवत् ॥ ८० ॥ सूरिहीरगुरुः क्रमेण प्रामानुप्रामादिविहारपरिपाट्या अहम्मदावाद इति नाम यस्य तादृशे पुरे नगरे समीयिवान् समाजगाम । किंवत् । सुप्रतीकवत् । यथा ईशानविदि संवन्धी अष्टमः सुप्रतीकनामा ककुप्कुञ्जरः नभस आकाशस्य नीरधेर्जलराशेवरवर्णिनी पत्नी । 'वशा सीमन्तिनी वामा वर्णिनी महिलाबला' तथा 'कर्षुर्दीपवती समुद्रदयिता : धुन्यौ स्रवन्ती सरः' इति द्वितयमपि हैम्याम् । एतावता आकाशगङ्गा । 'नदत्याकाशगङ्गायाः स्रोतस्युद्दाम दिग्गजे' इति रघुवंशे । तस्याः प्रतीरे तटे । 'तटं तीरं प्रतीरं च' इति हैम्याम् ॥ देवीनिगदितागण्यभाग्यसौभाग्यशालिनः । वस्यान्तेवासिनस्तस्य कम्माङ्गजयतीशितुः ॥ ८१ ॥ सूरीन्दुः कामयांचक्रे दातुं सूरिपदं ततः । तनूजस्येव राज्यस्य धुरं धात्री पुरंदरः ।। ८२ ॥ (युग्मम्) ततोऽहम्मदाबादगमनान्तरं सूरिहारविजयरज निजानिः स्वस्यात्मन: आत्मीयस्य वान्तेवासिनः समीपे वसनशीलस्य शिष्यस्य कम्मानानो व्यवहारिण: गृहीतव्रतत्वात्साधोर्वा अङ्गजः पुत्रः तथा यतीनां मध्ये ईशिता मुख्यो गीतार्थत्वात् ।। अथ वा भाविनि भूतोपचारात् निम्रन्थानां नायकः तस्य विमलप्रज्ञांशस्य सूरिपदमाचार्यपदं प्रदातुं कामयांचके अभिलषति स्म । किंभूतस्य । देव्या शासनतरुण्या निगदिते सूचिते कथिते अनण्ये अप्रमेये वाड्मानसगोचरीकर्तुमशक्ये भाग्यं पुण्यं तथा सौभाग्यं सुभगता विश्ववाल्लभ्यं ताभ्यां शालते शोभते इत्येवंशीलस्य । क इव । धात्रीपुरंदर इव । यथा पृथिवीपुरहूतो राजा तनूजस्य निजनन्दनस्य राज्यस्य खसकलमण्डलाधिपत्यधुरं प्रदातुं कामयते प्रक्रमे तत्र तत्रत्यसंघेनागृह्यत प्रभुः । तमिवाभिनवं सूरिशक्रमन्यं दिदृक्षता ॥ ८३ ॥ तत्र प्रक्रमे तस्मिन्प्रस्तावे तत्रत्येन कमीपुरीयेण संधेन श्राद्धवर्गेण भगवानगृह्यत । अर्थात्सूरिपदप्रदानार्थ प्रभोराग्रहः कृतः । संघेन किं कर्तुमिच्छता । तमिव हीरविजय. गणधरमिव अन्यमपरं अभिनवं नवीनं सूरेिशनं गणभारधुरंधरं दिदृक्षता द्रष्टुमिच्छता ॥ ततः खाशयसंवादि प्रपेदे तद्वचः प्रभुः । व्रतव्यतिकरे लौकान्तिकदेवोक्तमाप्तवत् ॥ ८४ ॥
SR No.002262
Book TitleHeer Saubhagya Mahakavyam
Original Sutra AuthorN/A
AuthorDevvimal Gani, Shivdatta Pandit, Kashinath Sharma
PublisherKalandri Jain S M Sangh
Publication Year1985
Total Pages980
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy