SearchBrowseAboutContactDonate
Page Preview
Page 470
Loading...
Download File
Download File
Page Text
________________ ९ सर्गः] हीरसौभाग्यम् । भावानिव । भानुमाली यथा प्राग्गिरेः प्राचीनपर्वतस्य कन्दरस्य । कन्दरशब्दनि लिङ्गे । 'पिठरप्रतिसरपात्रकन्दराः' इति लिङ्गानुशासने । कोडात् हृदयात् । मध्यादित्यर्थः । अथ वा क्रोडादुत्सङ्गानभोङ्गणं गगनाजिरे समागच्छति ॥ प्रीतिप्रहः प्रभुस्तत्र परिवत्रे व्रतिव्रजैः । सुनासीर इवास्थानीमासीनः खर्गिणां गणैः ॥ ७६ ॥ तत्र मौलोपाश्रये प्रभुः सूरीश्वरः प्रीया प्रमोदेन गुरुशिघ्यस्नेहेन धर्मस्य हार्दैन प्रहर्नम्रीभूतैः पदाम्भोजे भ्रमरीभावं प्राप्ततिव्रजैः श्रमणपुङ्गवगणैः परिवत्रे परिवृतः । क इव । सुनासीर इव। यथा आस्थानी सुधर्माभिधानां सभामासीन आश्रित्य तिष्ठन् । उपविष्ट इत्यर्थः । सहस्रलोचनः खर्गिणां गीर्वाणानां गणैर्वृन्दैः परिबियते ॥ तत्रागमन्पत्तनादिसंघास्तं वन्दितुं तदा। स्वर्गादिदेवाः समवसरणस्थं यथा जिनम् ॥ ७७ ॥ तत्र डीसाभिधे नगरे पत्तनमणहिल्लपुटभेदनमादिर्येषां तेषां नगराणां संघाः श्राद्धगणास्तं ध्यानोत्थितं सूरि वन्दितुं नमस्कर्तुमागमन्नागच्छन्ति स्म । यथा इवार्थे । के इव । देवा इव । यथा खगों देवलोक आदिः प्रथमं येषां तेषां भवननगरज्योतिर्विमानानां देवा भवनपतिवानमन्तरज्यौतिष्कद्वादशकल्पवासिनः सुराः समवसरणे तिष्टतीति समवसरस्थस्तं जिनं तीर्थंकरं नमसितुमायान्ति ॥ प्रबोधयन्सुदृक्पद्मान्कुदृक्पङ्काश्च शोषयन् । स्पर्धयेव रवेः सूरेः प्रतापो व्यानशे दिशः ॥ ७॥ सूरेहीरविजयवाचंयमेन्दोः प्रतापो दिशो दशापि हरितः प्रति व्यानशे व्याप्नोति . स्म । उत्प्रेक्ष्यते-रवेः सूर्यस्यार्थान्मार्तण्डचण्डप्रतापस्य स्पर्धया संघर्षेण मनस्यसूयया वा : किं कुर्वन् । सुदृशः सम्यक् दृष्टय एव पद्माः कमलानि प्रबोधयन् प्रतिबोधबन्धुरान् विदधत् । मुदर्शनिनः कुर्वन् । सूर्याऽपि पद्मानि प्रबोधयति विकाशयति । च पुनः किं कुर्वन् । कुत्सिताः शाक्यादिमतोपादानपटलसंवलिता दृश: दृष्टयो येषां सिद्धान्तविरुद्ध वादित्वाद्दष्टा दृष्टयो येषां ते कुदृशः कुवादिनः कुमतान्येव पङ्काः कर्द. मास्तान् शोषयन् निष्ठापयन् । सूर्योऽपि पङ्गं शोषयति ॥ प्रतिक्रम्य चतुर्मासी स क्रमाव्यहरत्ततः । हर्षाद्वर्षा इवोल्लङ्घय मानसादिष्टमानसः ॥ ७९ ॥ स सूरिः क्रमादनुक्रमेण विजयदशमीदीपालिका दिनगमनपरिपाट्या चतुणी मासानां समाहारश्चतुर्मासी वार्षिकचतुर्मासिकम् । अथ वा वर्षा शरलक्षणयोभ्यां मासाभ्यां कृत्वा चतुर्मासी, तां प्रतिक्रम्य । एतावता कार्तिकचतुर्मासिकप्रतिक्रमणं प्रणीय चतुमासी पूर्णीकृत्य वा ततस्तस्माहीसानगराधहरत् विहारं कृतवान् । इत्यर्थः । क इव ।
SR No.002262
Book TitleHeer Saubhagya Mahakavyam
Original Sutra AuthorN/A
AuthorDevvimal Gani, Shivdatta Pandit, Kashinath Sharma
PublisherKalandri Jain S M Sangh
Publication Year1985
Total Pages980
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy