________________
काव्यमाला। भानुमान् किरणमाली सूर्यः प्रातः वासरवदने भानूनां निजाभकप्रभाणां विभ्रम शोभा विलास वा प्रस्तारयन् विस्तारयन् भाति विभ्राजते । द्रुमाणां तरूणां द्रोणिषु । द्रोणी द्रोणिरिदन्तः श्रेण्यामपि' इत्यनेकार्थावचूर्णिः । भानुविभ्रमं विस्तारयन्निति सर्वत्र योज्यते । उत्प्रेक्ष्यते-उल्लसतः स्फुरतः विकसतो वा पल्लवान्प्रवालान्संचिन्वत्रुपचयं बाहुल्यं प्रापयन्निव । तथा तटाकेषु पद्माकरेषु । उत्प्रेक्ष्यते-कोकनदानां रक्तोत्पलानां श्रियं लक्ष्मी तन्वन्विस्तारयन्निव वहूनि कोकनदानि कुर्वन्निव । तथा । गिरेः पर्वतस्य. शृङ्गे शिखरे। उत्प्रेक्ष्यते-गैरिकावने रक्तधातुभूमेर्विभ्रमं भ्रान्ति कुर्वन्निव विरचयंन्निव। पुनर्दिग्वधूनां दशदिगङ्गनानां आस्येषु वदनेषु । उत्प्रेक्ष्यते-ताम्बूलश्रियं दिशन्ददान इव । ताम्बूले चर्विते वाधरादौ रक्तिमा भवेत् । पुनर्मंगाक्षीणां त्रस्तसारङ्गीदृशां सीमन्तेषु केशपाशवर्मसु । उत्प्रेक्ष्यते-सिन्दूरं शृङ्गारभूषणं पूरयन् सिन्दूरेण भरन्निव इति लोहितलक्ष्मीविलसितं सिद्धान्ते । 'कुडमखवियच्च जीवलोपे' इति सूर्यस्याभ्युदयसमये. कान्तिरप्यतीव रक्का स्यादिति । त्रिभिर्विशेषकम् ॥ इति सूर्यप्रभाप्रस्तारः ॥ ..
प्रारेभे भानुना व्योनि क्रमाच्चङ्क्रमणक्रमः ।
विश्वविश्वंभराभोगं प्रेक्षितुं किमु कासता ॥ ७३ ॥ भानुना मार्तण्डेन व्योम्नि गगनाङ्गणे क्रमादनुक्रमेण चक्रमणक्रमः गमनस्यानुक्रमः परिपाटी चत्रमणकलितः क्रमः प्रारेमे पादाः प्रारेभिरे । अथ वा चक्रमस्य क्रम आनन्तर्यनिरन्तरत्वं विश्रामरहितत्वेन गन्तुं प्रारभतेत्यर्थः । 'क्रमः कल्पानिशक्तिषु परिपाट्याम्' इत्यनेकार्थः । 'परम्परायां पादक्षेपे आनन्तर्ये पदसंधावपि क्रमः' इत्यनेका. विचूरिः । उत्प्रेक्ष्यते-विश्वस्य जगतः अथ वा विश्वस्याः समप्राया विश्वंभरायाः वसुंधरायाः आभोगं विस्तारं प्रेक्षितुं द्रष्टुं काश्ता किमु वाञ्छतेव ॥ इति दिनोदयः ।।
आसाद्य दर्शनं तस्याः शासनस्वर्गिसुभ्रवः। .
व्यरंसीध्यानतः सूरिोगीव परमात्मनः ॥ ७४ ॥ सूरिहीरविजयसूरीन्द्रो ध्यानतः सूरिमन्त्रजापतः प्रणिधानाधरसीद्विरमते स्म । किं कृत्वा । तस्याः पूर्वोकसर्वाङ्गवर्णनागमनादिव्यतिकरायाः शासनदेवतायाः दर्शनं प्रत्यक्षावलोकनमासाद्य अधिगत्य । साक्षात्समीक्ष्येत्यर्थः । क इव । योगीव । यथा योगसाधको जितेन्द्रियो ध्यानविधानकतानः परमात्मनः परमात्मखरूपस्य दर्शनं प्राप्य विरमति । ध्यानं कुर्वाणा योगीन्द्रा हृदि परमात्मानमालोक्य ध्यानाद्विरमन्ते । यथा 'योगं स चान्तः परमात्मसंज्ञं दृष्ट्वा परं ज्योतिरुपारराम' इति कुमारसंभवे ।।
सूरीन्दुर्वसतेमध्ये ध्यानस्थानादथागमत् ।
प्राग्गिरेः कन्दरकोडाद्भाखानिव नभोङ्गणम् ॥ ७ ॥ अथ शासनदेवतागमनप्रश्नकथनध्यानविरमणानन्तरं सूरीन्दुहरिविजयसूरिचन्द्रो ध्यानस्थानात्प्रणिधानविधानास्पदाद्वसतेरुपाश्रयस्य मध्ये उत्सङ्गे आगमदागतः । क इव।