________________
काव्यमाला।
भत्र । अभ्रमूशन्दो दीर्घोऽपि दृश्यते-यथा 'गजानामभ्रमूपतिः' इति काव्यकल्पलतायाम् । तथा 'अभ्रमूवल्लभारुढं निशाशेषे कदाचन । खप्ने महेन्द्रमद्राक्षीत्पृथा पृथुमनोरथा ॥ इति पाण्डवचरित्रेऽपि । ऐरावणवारणेन प्राग्गिरेः पूर्वपर्वतस्य गैरिको धातुमयो गण्डोपल: स्थूलपाषाण इवोत्खातः उत्पाद्य क्षिप्तः इव । ऐरावतदन्तावलस्य पूर्वस्या. दिशो दिग्गजत्वात्प्राग्गिरेरिति कथनं युक्तिमत् ॥
द्यावाभूमी पराभूष्णुं भूच्छायामरवैरिणम् ।
भेतुं व्यमोचि चण्डांशु चक्रं किं चक्रपाणिना ॥ ६४ ॥ .. चक्रपाणिना नारायणेन । उप्रेक्ष्यते-चण्डास्तीक्ष्णा रुद्रा वा अंशवः किरणा यस्य सूर्यरूपं वा । अथ वा चण्डं भयकारि अंशु शीघ्रगामि । 'अंशः सूत्रादिसूक्ष्मांशे किरणे चण्डदीधिती' इत्यनेकार्थः । शीघ्रगामिनि वाच्यलिङ्गः । शैध्येऽपि तत्र क्लीबम् । चक्रं सुदर्शनं नाम स्वरधाई व्यमोचि मुक्त मिव । किं कर्तुम् । द्यावाभूम्योर्दिवस्तृथिव्योर्नभोभुवोः पराभूष्णुमभिभवनशीलं भूच्छायमन्धकारमेवामरवैरिणं दानवं भेत्तुं विदारयितुं हन्तुम् ॥
कण्ठपीठीलठत्प्राणरथाङ्गाहविहायसाम् । .
जीवातुर्यमुनाबीजी व्यरचीव विरश्चिना ॥ १५ ॥ विरचिना ब्रह्मणा यमुनायाः कालिन्द्या बीजी जनकः । 'वप्ता तु जनकस्तातो बीजी जनयिता पिता' इति हैम्याम् । 'सहस्ररश्मिर्यमुनाकृतान्तजनक: प्रद्योतनस्तापनः' तथा 'यमुना यमभगिनी कालिन्दी सूर्यजा यमी' इति द्वितयमपि हैम्याम् । उत्प्रेक्ष्यतेजीवातुजीवनौषधमिव व्यरचि विहितम् । केषां कण्ठपीठयां गलकन्दले। 'जयत्युदरनिःसरद्वरसराजपीठीपठच्चतुर्मुखमुखावलीरचितसामनामस्तुतिः' . इति चम्पूकथायाम् । 'वंशिकवक्रोष्टिककान्यकुब्जपीठानि' इति लिङ्गानुशासने स्त्रीलीबलिङ्गयोः । पीठं पीठी च । लुठन्तः वियोगातिव्यथाव्याकुलतया निर्गमनायागच्छन्तः प्राणा असवो येषाम् । कण्ठगतजीवितानामित्यर्थः । तादृशानां रथाङ्ग इति आह्वा नाम येषाम् । 'चक्रवाको रथाशाहः कोको द्वन्द्वचरोऽपि च' इति हैम्यां रथाङ्गशब्देन चक्रमुच्यते तन्नानां विहायसां पक्षिणां चक्रवाकविहङ्गमानां जीवनस्य भेषजमिव । विहायो व्योमपक्षिणोः' इत्यनेकार्थः ॥ इति सूर्योदयः ॥
शोणी दीप्तिर्दिनेशस्याधाकुमारितरा श्रियम् ।
कोकैर्दुःखानलज्वाला किमुद्गीर्णाः सुहृत्पुरः ॥ ६ ॥ दिनेशस्य दिवसनायकस्य भानोः दीप्तिः कान्तिः श्रियं शोभामधाद्धरते स्म । किभूता । कुमारितरा बाला । प्रथमोत्पन्ना । अतिशयेन कुमारी कुमारितरा । 'हस्त्रो वा' इति सारखतसूत्रेण तरतमयोः परयोः सतोर्वा एखः । अत एव किंभूता । शोणी अत्यन्तारुणा । 'रचयति रुचिः शोणीमेतां कुमारितरा रवः' इति नैषधे । उत्प्रेक्ष्यते