________________
९ सर्गः]
हीरसौभाग्यम्। बिन्दुवृन्दैः पद्मनामभिः शोणच्छविमदवारिकणगणैः । 'बिन्दुजालं पुन: पद्मम्' इति हैम्याम् । पञ्चम्यादेदशायां करिणां कपोलेभ्यो रक्तबिन्दवो निःसरन्तीति कविसमयः । 'भूर्जत्वचः कुञ्जरबिन्दुशोणाः' इति कुमारसंभवे ॥
प्रत्यूषे मखमुग्लेखातल्पेभ्यः पतयालुभिः ।
किमास्तीर्णारुणाम्भोजपर्णैः शोणीकृतं नभः ॥ १० ॥ नभो गगनं शोणीकृतम् अधिकारार्थात्प्रभातसंध्यारागेण पाटलं प्रणीतम् । उत्प्रेक्ष्यते-प्रत्यूषे दिनवदने मखभुजां यज्ञांशभोजिना लेखा श्रेणी तस्यास्तल्पेभ्यः पल्यड्रेभ्यः पतयालुभिः पतनशीलैरास्तीर्णैः प्रस्तृते अरुणाम्भोजानां कोकनदानां पर्णैर्दलैम. भ्डलैरिव ॥ इति प्रातःसंध्या ॥ .
अथो पाथोजिनीनाथोऽभ्युदियाय नभोङ्गणे । ___ कपोलकुङ्कमक्लिन्नं प्राच्याः किं कर्णकुण्डलम् ॥ ६१॥ अथो संध्यारांगानन्तरं नभोङ्गणे आकाशाजिरे पाथोजिनीनां जलजन्मिनीनां नाथः प्राणपतिः सूर्यः अभ्युदियाय उदयाचलचूलायामुद्गमं लभते स्म । उत्प्रेक्ष्यते-कपो. लस्य गण्डस्थलस्य पत्रवल्ली प्रापितेन कुङ्कुमेन घुसणेन क्लिन्नं व्याप्तम् । 'अयमुदयति घुसणारुणतरुणीवदनोपमश्चन्द्रः' इति विदग्धमुखमण्डनवचनात् प्राच्या आखण्डलमहिष्याः पूर्वदिशः कर्णस्यैकं कुण्डलं स्फुटं प्रकटं ताटङ्क इव ॥
पूषद्विषं प्रसांद्याम्भोमूर्ति नित्यानुशीलनैः ।
पद्मिनीभिरभीर्भर्ता पूषाहूतः किमुद्ययौ ॥ १२ ॥ . पूषा भानुमान् उद्ययौ उदयमालिङ्गति स्म । उत्प्रेक्ष्यते-पद्मिनीभिः कमलिनीभिः प्रेयसीभिर्भर्ता खप्राणनाथः । अथ वा पद्मिनीभिररविन्दैर्बान्धवैः सुहृद्भिर्वा निजसुहृद्धन्धुराहूतः । सप्रणयं तादृशस्य पूषद्विषः शंकरस्य नित्यमहर्निशमनुशीलनैः सर्वावसरसावधानताविधानाद्वैतसेवाभिः । जलमूर्तिरीश्वरस्य । यदुक्तम्-'क्षितिजलपवनहुताशनय. जमानाकाशसोमसूर्याख्याः । यस्य खलु मूर्तयोऽष्टौ स भवतु भवतां शिवः सिद्ध्यैः ॥' इति कविसमयोक्तिः । प्रसाद्य पूर्व प्रसन्नीकृत्याभयदानमार्गणसन्मानप्रदानादि सम्यग्वरोपादानपूर्व संतोष्य ॥
अभ्रमूवल्लभेनेवोत्खातः प्रातर्निखेलता ।
प्राग्गिरेगैरिको गण्डोपलो बालारुणो व्यभात् ॥ १३ ॥ बालारुणोऽर्भकभानुमाली व्यभाद्विभासते स्म । 'जरीज़म्भडिम्भामणिविलस-' इति खण्डप्रशस्तौ । तथा 'विश्वव्यापि तमो हिनस्ति तरणिर्बालोऽपि कल्पाङ्करो दारिद्राणि गजावली हरिशिशुः' इति श्रीचिन्तामणिपार्श्वनाथस्तुतौ । उत्प्रेक्ष्यते--प्रातः प्रभातसमये निखेलता स्वतन्त्रं तटाघातादिक्रीडां कुर्वता अभ्रमूवल्लभेन अभ्रमनामा हस्तिनी तस्या