SearchBrowseAboutContactDonate
Page Preview
Page 440
Loading...
Download File
Download File
Page Text
________________ ८ सर्गः] हीरसौभाग्यम् । जन्मना लीलादोले केलिप्रेलोले विनिर्मिते खयंकृते इव । कस्मै । प्रीत्या च पुनः रत्या प्रीतिरतिनाम्न्यो द्वे स्मरपन्यौ ताभ्यां स्त्रीभ्यां समं सह मीनकेतोर्मकरध्वजस्य दो. लाभ्यां प्रेसोलनाभ्यां यान्दोलना तस्या यो दोहदो वाञ्छा अभिलाषस्तस्य पूरणाय संपादनाय परिपूर्तये । 'दोलान्दोलनदोहदोऽपि च चलवीचीचयैः पूर्यते' इति हंसाष्टके॥ मोघीकृताशेषशरं गिरीशं प्रत्यर्थिनं पाशयितुं कथंचित् । अधारि पाशो विषमायुधेन यद्वेश्मनेव श्रवणच्छलेन ॥ १४०॥ यद्वेश्मना या शासनदेव्येव वेश्म वासमन्दिरं यस्य तादृशेन विषमायुधेन विषमा. ण्येकीभावभाजि । एकत्रिपञ्चसप्तसंख्यावन्ति विषमाण्युच्यन्ते । 'लक्ष्मैतत्सप्त गणा गो. पेता भवति नेह विषमे जः ।' आर्याया एतल्लक्षणम् । अष्टमस्थाने गुर्वक्षरयुताश्चतुर्मात्रिकाः । सप्त गणा भवन्ति । 'इहार्यायां विषमे एकत्रिपञ्चसप्तस्थाने जगणो न भवति' इति वृत्तरत्नाकरे । तथा समानि तु द्विचतुःषडष्टादीनि तेनात्रार्थाद्विषमाणि पश्चसंख्याकानि आयुधानि अर्थाद्वाणा यस्य । विषमाणि दुर्धराण्यसह्यानि वा शास्त्राणि यस्य । 'विषमायुधो दर्पकः कामहृच्छया' इति हैम्याम् । स तेन स्मरेण श्रवणच्छलेन कर्णकपटेन । उत्प्रेक्ष्यते-पाश इवाधारि बन्धनग्रन्थिरिव धृतः । किं कर्तुम् । मोघीकृता व्यर्थी विहितास्तृणप्रायाः प्रणीता अशेषाः समस्ताः शरा अर्थान्मन्मथमार्गणा येन ता. दृशं गिरीशं शंकर प्रत्यर्थिनं स्वशत्रु कथंचित्केनापि प्रकारेण कृत्वा पाशयितुं पाशसात्कर्तुं पाशेन बढुं पाशे पातितं वा कर्तुम् ॥ धृतैकपाशेन पयोधिधामा स्वाङ्कप्रभुत्वेन किमात्मयोनिः । स्पधी दधानः श्रवसी त्रिदश्याः पाशद्वयीमाकलयांचकार ॥ १४१॥ आत्मयोनिर्मदनः त्रिदश्या जिनशासननिर्जरनितम्विन्याः श्रवसी कर्णावेव पाशद्वयीं बन्धनग्रन्धियुगलीमाकलयांचकार निभर्ति स्म । उत्प्रेक्ष्यते-धृत उपात्त एक एव पाशो येन तादृशेन पयोधिधाम्ना जलनिधिनिकेतनेन वरुणेन । 'वरुणस्त्वर्णवमन्दिरः प्रचेताः' इति हैम्याम् । समं साधं खस्यात्मनः अङ्कश्चिहं मकरः यादोऽपरनामा । 'अन्येऽपि यादोभेदाः स्युर्बहवो मकरादयः' इति हैम्याम् । तस्य मकरस्य प्रभुत्वेन खामितया। 'जलयादःपतिपाशिमेघनादाः' इति हेमचन्द्रवचनात् । खस्य तस्य च मकरप्रभुत्वेन हेतुना स्पर्धी संघर्षमीयॊ वा दधानः बिभ्रदिव ॥ इति कौँ ॥ श्रियाभ्यभूयन्त मया समग्रा नवद्वयद्वीपमहीमहेलाः । इतीव वक्तुं जगतां स्म धत्ते सुरीश्रवःसङ्गि नवाङ्कयुग्मम् ।। १४२॥ सुरी शासनसुधाशनवधूः श्रवसोः कर्णयोः सङ्गो मिलनं स्थितिर्वा यस्य तादृशं नवायोर्नवसंख्याकयोरङ्कयोर्मानविशेषयोः नवाझाकारयोर्युग्मं द्वन्द्वं धत्ते धारयति । उत्प्रे. क्ष्यते-जगतां त्रिजगजनानां सुरासुरनराणामित्यमुना प्रकारेण वक्तुं कथयितुमिव ।
SR No.002262
Book TitleHeer Saubhagya Mahakavyam
Original Sutra AuthorN/A
AuthorDevvimal Gani, Shivdatta Pandit, Kashinath Sharma
PublisherKalandri Jain S M Sangh
Publication Year1985
Total Pages980
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy