________________
३८.
.
काव्यमाला।
इति किम् । यन्मया श्रिया खवपुलतारामणीयकलक्ष्म्या कृत्वा नचाना नवसंख्याकाना द्वयं युगलं ते च ते द्वीपाश्च । अष्टादशद्वीपे इत्यर्थः । 'अष्टादशद्वीपानेखातयूपः' इति रघुवंशे । तथा 'नवद्वयद्वीपपृथग्जयश्रियाम्' इति नैषधे । तेषां मही पृथिवी तस्यास्त. त्रोत्पन्ना वा महेलाः प्रमदाः अभ्यभूयन्त पराभवगोचरीचक्रिरे इतिकारणात्कर्णयामलसंगतनवाङ्कद्वन्द्वं ववधूर्धत्ते । 'कर्णान्तरुत्कीर्णगभीरलेखः किं तस्य संख्यैव नवा नवाङ्कः' इति नैषधे ॥ इति कर्णान्तर्गतनवसंख्याकः ॥
स्वपृष्ठलमागतकेशकायस्वर्भाणुमालोक्य जिनाधिदेव्याः। त्रायस्व नौ वक्तुमितीन्दुभानू श्रुत्योर्विलग्नाविव कुण्डलाङ्गौ ॥१४३॥
खयोः सूर्याचन्द्रमसात्मनोः पृष्ठे पश्चात्प्रदेशे लग्न एवागतः पृष्ठश्लिष्ट एव समुपेतः तादृक् । तथा केशा देवीचिकुरा एव कुन्तलरूप एव कायः शरीरं यस्य श्यामवर्णत्वा. स्वर्भाणुर्विधंतुदस्तं आलोक्य वैरित्वात्सभयं विभाव्य । कुण्डले कर्णवेष्टिके एव अहं देहो ययोस्तादृशौ इन्दुभानू चन्द्रसूर्यौ । जयति पराभवति वाह्यावाह्यशत्रूनिति जिनः त्रिभुवनाधिनाथस्तस्याधिदेवी अधिष्ठात्री देवता तादृक्खामिसेवकतया तस्या अप्यचि. न्यसामर्थ्यात् । श्रुत्योः श्रवणयोः। उत्प्रेक्ष्यते-इत्येतद्वक्ष्यमाणं वक्तुं कथयितुमिव वि. लमौ लगित्वा स्थितौ । अन्यावपि किंचित्खकृत्यं कथयितुकामौ खामिश्रवणयोर्विलगतः। इति किम् । हे त्रैलोक्याधीशाधिदेवते प्रवलपराक्रमे, त्वं नौ आवयोः प्रचण्डविधुतुददैत्यादस्मजिघांसोः सकाशाबायख रक्षाजीवितप्रदानेन पालय ॥ इति कर्णकुण्डले ॥
नीलोत्पले कर्णयुगे चकासांबभूवतुः स्त्रैणमणेः सुराणाम् । युयुत्सुनी तन्नयनोत्पलाभ्यामिव प्रतिस्पर्धितयाभ्युपेते ॥ १४४ ॥ सुराणां निर्जराणां स्त्रीणां समूहः स्त्रैणं स्त्रीसमूहापेक्षया सुराणामित्यत्र बहुवचनं तस्य तस्मिन्वा मणे रनभूतायाः शासनदेवतायाः कर्णयुगे कर्णयुगले नीलोत्पले इन्दीवरे। नीले तु स्यादिन्दीवरम्' इति हैम्याम् । चकासांबभूवतुः भातः स्म। उत्प्रेक्ष्यते--तस्यास्त्रिदश्या नयने विलोचने एवोत्पले कुवलये ताभ्यां समं सार्धे प्रतिस्पर्धितया परस्पराद्वैतवैभवातिरेकोद्भूताभ्यसूयया कृत्वा युयुत्सुनी योद्धकामे इवाभ्युपेते संमुखं समेते । अपरोऽपि संस्पर्धोदयाग्निजसपत्नोपरि योद्धमायाति ॥
अभ्यस्यतास्याः श्रवसी मनोभूर्धनुर्धरेणेव धृते शरव्ये । न चेद्भवेतां कथमन्तरालेऽनयोर्विनीले कमले कलम्बौ ॥ १५ ॥ अभ्यस्यता त्रिजगज्जयकृते शराभ्यासं कुर्वता मनोभूर्मदनो नाम धनुर्धरो धानु. कस्तेन अस्यास्त्रिदश्याः श्रवसी श्रवणावेव । उत्प्रेक्ष्यते-शरव्ये वेध्ये धृते मण्डिते इव । एवं चेन्न तर्हि अनयोः श्रवःशरव्ययोः अन्तराले मध्ये विनीले नीलवर्णे कमले एतावता नीलोत्पले एव कलम्बी बाणौ । 'रोपाः कलमाशरमार्गणचित्रपुत्राः' इति