SearchBrowseAboutContactDonate
Page Preview
Page 439
Loading...
Download File
Download File
Page Text
________________ ३७८ काव्यमाला। श्रिया सुधाभाक्परमाणुमध्या चक्षुर्विभूषामनुकतुकामैः । गुप्तं क्वचित्पावृषि सञ्जरीटैराराध्यते मन्त्र इवाप्तदत्तः ॥ १३६ ॥ खञ्जरीटेः खञ्जनपक्षिभिः प्राषि वर्षाकाले क्वचित्कुत्रापि जनदृग्गोचरे स्थाने गुप्तमत एव यथा कश्चिन्न वेत्ति तथा छन्नं यथा स्यात्तथा । उत्प्रेक्ष्यते-आप्तेन विश्वास. प्राप्तेन केनचित् हितकृता सिद्धेन वा केनचन दत्तोऽतिप्रसन्नीभूत्वा विधाणितो मत्रो. ऽतिप्रभावयुक्तवर्णपाठमयः आराध्यते साध्यते इव । किं कर्तुकामैः खअनैः । श्रिया . खशोभया वैभवेन सुधाभुजो देवस्य परमाणुवदतिसूक्ष्मत्वान्मध्यमुदरं यस्याः सा पर. माणुमध्या । तस्याश्चक्षुषो लोचनस्य विभूषां लक्ष्मी विलासमनुकतु स्वेन सदृशीं विधातुं कामोऽभिलाषो येषां तैः ॥ चन्द्राच्चकोरोऽमृतपानदम्भाद्यानस्थितो गन्धवहात्कुरङ्गाः । पितामहात्पङ्कजमासनस्थं यदक्षिलक्ष्मीमिव मार्गयन्ति ॥ १३७ ॥ . चकोरजातिवाचित्वादेकवचनम् । ज्योत्स्नाप्रियप्रकरः चन्द्रात्सुधाकरादमृतपानस्य दम्भात्कैतवात् यस्याः शासनदेवतायाः अक्ष्णोर्टशोर्लक्ष्मी मुषमा मार्गयतीव । उत्प्रेक्ष्यते-याचतीव यथा याने वाहने स्थितः सन् कुरङ्गो मृगो गन्धवहात्पवनात्सकाशात्। 'मातरिश्वा जगत्प्राणः पृषदश्वो महाबलः' इति हैम्याम् । पृषत्कुरङ्गजातिविशेषः। तथा 'कर्तु शशाङ्काभिमुखं न भैम्या मृगं दृगम्भोरुहनिर्जितं यत् । अस्या विवाहाय ययौ विदर्भास्तद्वाहनस्तेन न गन्धवाहः॥' इति नैषधे। पवनात्सकाशात् । उत्प्रेक्ष्यतेयदक्षिलक्ष्मी मार्गयतीव । आसने विष्टरे तिष्ठतीत्यासनस्थं ब्रह्मण: सरोरुहासनत्वात् । 'भवान्तकृजगत्कर्तृसरोरुहासनाः' इति हैम्याम् । पङ्कजं कमलं पितामहाजनकजनका. द्विधातुः सकाशाद्देवीविलोचनविभ्रमं याचतीव ॥ .. स्मितं दिने निश्यपि नित्यरङ्गङ्गाङ्कितं स्याद्यदि पुण्डरीकम् । प्रस्पन्दमानान्तरतारिकां तत्तनोतु कुर्यादृशमेतदीयाम् ॥ १३८ ॥ यदि कदाचिद्देवतानुभावात् दिने वासरे निश्यपि रात्रावपि स्मितं विकाशं प्राप्त तथा नित्य रात्रौ दिवा वा विरहितं रान्तौ मकरन्दं पातुमितस्ततो भ्रमणतश्चपलायमानौ भृङ्गौ द्विरेफौ ताभ्यामङ्कितं कलितमेवंविधं पुण्डरीकं श्वेतकमलं स्यात्ततस्तर्हि यथाकथंचित्तत्पुण्डरीकं प्रस्पन्दमाना प्रचलन्ती अन्तरे मध्ये तारिका कनीनिका यस्यां तादृशीम् । एतदीयामेतस्या इमां त्रिदश्या देव्या इमां दृष्टिमनुकुर्यात् सदृशीभवेत् । अनुकारं विदध्यादित्यर्थः ॥ इति लोचनम् ॥ प्रीत्य' च रत्या सह मीनकेतोरन्दोलनादोहदपूरणाय । विनिर्मिते नाभिभुवेव लीलादोले तदीये श्रवसी विभातः ॥ १३९ ॥ तदीये देवीसंबन्धिनी श्रवसी को विभात: शोभेते। उत्प्रेक्ष्यते-नाभिभुवा पद्म
SR No.002262
Book TitleHeer Saubhagya Mahakavyam
Original Sutra AuthorN/A
AuthorDevvimal Gani, Shivdatta Pandit, Kashinath Sharma
PublisherKalandri Jain S M Sangh
Publication Year1985
Total Pages980
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy