SearchBrowseAboutContactDonate
Page Preview
Page 428
Loading...
Download File
Download File
Page Text
________________ ८ सर्गः] हीरसौभाग्यम् । ३१७ यस्याः शासनसुर्याः विनिद्रन्तीनिविजृम्भमाणाभिर्द्विजानां दन्तानां चन्द्रिकाभिज्योंनाभिः । कान्तिभिरित्यर्थः । 'दशनचन्द्रिकया व्यवभासितम्' इति रघौ । कैरविणीनां कुमुदिनीनां चन्द्रविकाशिविशदविकसितारविन्दिनीनां वनं काननम् । वृन्दमित्यर्थः । तस्य श्रीः लक्ष्मीः शोभा आश्रीयते आलम्ब्यते। कस्याम् । पीयूषैः सुधारसैः पूर्णायां निर्भरभरितायां स्मरस्य रतिपतेः केलये क्रीडाकरणार्थ शोण रक्तर्मणीभिः रत्नैः । पद्मरागगणैरित्यर्थः। निबद्धायां रचितायां घटितायामधरोऽर्थादेव्या ओष्टः स एव दीधिका वापी तयां राजीव । 'वनराजिनि दीपिकावारिणि स्नानम्' इति पाण्डवचरित्रेऽर्जुनस्याष्टापदयात्राधिकारे । यत्र राजीवानि तत्र राजीविनीलताया अपि सद्भाव इति । तथा 'केचिददन्त्यमृतमस्ति पुरे सुराणां केचिद्वदन्ति वनिताधरपल्लवेषु । ब्रूमो वयं त्वदरिवर्गकरागुलीषु यत्पानतो मरणमागतमप्यपास्तम् ॥' इति भोजप्रबन्धे वनिताधरेषु सुधारसः ॥ खर्भाणुभीरो रजतीचरिष्णोः कलङ्कभाजः क्षयिनः सितांशोः । ज्योत्स्ना किमुद्वेगवती यदास्यं भेजेऽपविघ्नं दशनांशुदम्भात् ॥१०॥ सितांशोश्चन्द्रादुद्वेगवती खेदं प्राप्ता सती ज्योत्स्ना । उत्प्रेक्ष्यते-दशनानां राजदन्तानामंशवः किरणास्तेषां दम्भात्कपटात् अपगता विघ्ना वसतौ खानिष्टकारिण: प्र. त्यूहा यस्मात्तादृक् यदास्यं देवीवदनं भेजे श्रितवतीव । उद्वेगकारणान्याह-किंभूतस्य सितांशोः । खर्भाणो राहोः सकाशाद्भीरोभीरुकस्य । खाभ्यवहारकारिसिंहिकेयभयविहुलीभूतस्येत्यर्थः । एतावता सवैरत्वमुक्तम् । पुनः किंभूतस्य । रजन्यां निशायामेव पारदारिकपाटच्चरादिवचरिष्णोः संचरणशीलस्य । एतावता चौरविटादिचेष्टावत्वं च । अत एव पुनः किंभूतस्य । कलई गुरुदाराभिगमनादपवादं लाञ्छनं च भजतीति कलङ्कभाजः । एतावता सापवादत्वं सुशीलताराहित्यं च । पुनः किंभूतस्य । क्षयिनः क्षयरोगवतः । खपरदारेष्वत्यासक्तस्य व्यसनिनो राजयक्ष्मादयो रोगा भवेयुरवश्यम् । यतः 'कम्पः स्वेदश्रमो मूर्छा भ्रमिला निर्वलक्षयः । राजयक्ष्मादिरोगाश्च भवेयुमैथुनोत्थिताः॥' इति योगशास्त्रे । पक्षे कृष्णपक्षानुभावात् कलाभिहींयमानतया क्षीणताभाजः । सितांशो. रिति पदेनापि पाण्डुरत्वं सूचितम् । तच्च रोगादिना दुःखाद्यतिरेकेण वा पाण्डिमा जायते । ततः पाण्डुकुष्ठरोगवतः भूतादिवद्वलदेहस्य वा । ततोऽपि विरूपवतः । एतेभ्यः कारणेभ्यः एतैः कारणैर्वा मनस्युद्वेगं प्राप्ता ॥ यस्याः पृणन्निर्जरदृक्चकोरान्दन्तप्रभाभिर्वदनं दिदीपे । शरद्विनिद्रीकृतचन्द्रिकाभिर्विभावरीणामिव सार्वभौमः ॥ १० ॥ वस्या देवताया दन्तप्रभाभिर्दशनदीप्तिभिः कृत्वा वदनं मुखं दिदीपे । वदनं किं कुर्वत् । पृणत् प्रीणयत् । 'पृण प्रीणने तुदादिधातोरयं प्रयोगः । कान् । निर्जरा देवास्तेषां दृशो लोचनान्येव कोरा ज्योत्स्नाप्रियास्तान् । क इव । सार्वभौम इव । यथा विभावरीणां शर्वरीणां सार्वभौमश्चक्रवर्ती प्राणनाथश्चन्द्रः ! 'कन्दर्पऽनल्पदर्षे विकिरति
SR No.002262
Book TitleHeer Saubhagya Mahakavyam
Original Sutra AuthorN/A
AuthorDevvimal Gani, Shivdatta Pandit, Kashinath Sharma
PublisherKalandri Jain S M Sangh
Publication Year1985
Total Pages980
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy