________________
३१६
काव्यमाला। इदमुखीभूतमवेत्य चन्द्रं बालं तदीयं करचक्रवालम् । अन्वागतं प्राक्प्रणयादिवैतद्दन्तच्छन्दः स्फूर्तिमियति तस्याः ॥ ९९ ॥ तस्या देव्या दशनच्छदो दशनपत्रमधरः स्फूर्ति शोभामियति । उत्प्रेक्ष्यते-इदंमुखीभूतम् अस्या वदनभावं प्राप्तं चन्द्रं खजनकुमुदसुहृदमवेत्य ज्ञात्वा सम्यगवबुध्य प्राक्प्रणयात्पूर्वस्नेहाचन्द्रावस्थायां नित्यमुत्सङ्गसङ्गीकरणप्रीतेः एतद्दशनच्छददेहं देवीद. न्तवस्त्रगात्रं तदीयं यद्वदनीभूतचन्द्रसंबन्धि तथा बालं लघुकुमारे कराणां किरणानां चक्रवालं मण्डलमन्वागतं पृष्ठे समेतमिव । यो बालः स पितुर्मातुर्वा पृष्ठे समेतीति रीतिरपि बालत्वात्किरणानामरुणत्वमपि युक्तमेवेति ॥
यद्दन्तपत्रेण रणेऽभिभूता नंष्ट्वा प्रविष्टापि पयोधिमध्ये । रक्ताङ्कराजी हृदि कृष्णवल्लीं शल्यं किमद्यापि न पर्यहार्षीत् ॥१०॥ यस्या देवताया दन्तपत्रेण दशनदलेनाधरेण रणे परस्पर्धितया मिथो युद्धे अभिभूता पराजिता सतीरकाङ्कराजी विद्रुममालिका हृदि मनसि विषये हृदये वक्षसि वा कृष्णवल्लीम् । 'कालिवेल' इति लोकप्रसिद्धा । तद्रूपं तामेव वा शल्यं शूककण्टकादीनां शलाकां हृदये मर्मप्रविष्टशस्त्रं वा । 'शल्यं शस्त्रशलाकयोः' इत्यनेकार्थः । तथा 'शल्यं शरीरान्तर्गतं शस्त्रादिसीमाच्छिदं बंशादीनां शलाकाविशेषश्च' इति लिङ्गानुशासने । अ. द्यापि अद्यतनं दिनं यावन्न पर्यहार्षीत् परिहरति स्म हृदये एवावतिष्ठमानमास्ते किम् । नष्टा यदधरोद्धरविरोधिविरुद्धविधानातिसाध्वसात्प्रणश्य पयोधिः समुद्रस्तस्य मध्ये अ. त्यगाधजलान्तः प्रविष्टा प्रविश्य स्थितापि ॥ इत्यधरः ॥ .
बन्धूकबन्धूभवदेतदीयदन्तच्छदे दन्तरुचिश्चकासे । , निपेतुषी कोकनदच्छदाङ्के शरत्सुधादीधितिकौमुदीव ॥ १०१ ॥
बन्धूको बन्धुजीवः । 'विपोहरिया' इति लोकप्रसिद्धिः । स रक्तकुसुमः स्यात् । तथा 'बन्धुजीवविघातं ग्रीष्मदिवसावसानजनाः' इति चम्पूकथायाम् । ग्रीष्मे हि बन्धू. कानि शुष्यन्ति । तथा 'बन्धूकप्रसवारुणाम्बरधराम्' इति लघुस्तवेऽपि । तस्य बन्धूककुसुमस्य बन्धूभवन् सहोदरो मित्रं वा जायमानो य एतदीयो देवतासंबन्धी दन्तच्छदोऽधरस्वत्र निपेतुषी पतनशीला पतिता वा दन्तानामर्थाद्देवीदशनानां रुचिः कान्तिश्वकासे दीप्यते स्म । उत्प्रेक्ष्यते-कोकनदस्य विकसितरक्तोत्पलस्य यच्छदं पत्रं तस्याङ्के उत्सरु निपेतुषी समीयुषी प्राप्ता शरदो घनात्ययस्य सुधादीधितिरमृतवत् शर. कालेन जलधररोधोपरोधावधीरणेन निर्मलीकृतत्वादुज्ज्वला अतिविशदीभूता दीधितयः कान्तयो यस्येत्यन्वर्थनामा चन्द्रस्तस्य कौमुदी चन्द्रिकेव । अथ वोपमा । यथा रक्तकमलपलाशे शारदीननिशानायककौमुदी शोभते ॥
पीयूषपूर्णस्मरकेलिशोणमणीनिबद्धाधरदीर्घिकायाम् । यस्या विनिद्रद्विजचन्द्रिकाभिराश्रीयते कैरविणीवनश्रीः ॥ १०२॥