________________
८ संर्गः
हीरसौभाग्यम् ।
यदस्यास्त्रिदश्या देव्या आस्वादककुण्डाद्विलसत्तरः प्रस्फुरस्कल्लोलैः स्वरङ्गाकारीभवत्कान्तिप्रतानैः । 'विमलं वर्तुलं कान्तितरङ्गि वदनं विभो' इत्युक्तेः । कृत्वा प्रसर्पनिःसरत् 'गच्छति विसर्पत्ययत्ययते' इति क्रियाकलापे । यथा विसर्पति तथा प्रसर्पत्यपि । अगण्यममेयं यल्लावण्यं लवणिमा तदेव पयः पानीयं बहिस्तान्मुखादहि गे मा स्तान्मा भवतु वादहिर्मा निर्यातु। 'धृत्युद्भवा यच्चिबुके चकास्ति निम्ने मनागङ्गुलियत्रणेव' इति नैषधे ॥
यदाननाम्भोरुहवाससौधे सातं वसन्त्या जलराशिपुत्र्याः । विलासवापीव पयोविहारं खैरं विधातुं चिबुकस्त्रिदश्याः ॥ ९६ ॥ त्रिदश्याः शासनदेव्याश्चिबुकः । उत्प्रेक्ष्यते-जलराशिपुच्या लक्ष्म्या विलासवापीव कीडादीर्घिकेव। किं कर्तुम् । स्वैर स्वेच्छया पयसि वारिणि विहारं जलकेलिम् । 'यस्याव. रोधस्तनचन्दनानां प्रक्षालनाद्वारिविहारकाले' इति रघुवंशे । विधातुं कर्तुम् । किं कु
त्या जलराशिपुत्र्याः । यदाननाम्भोरुहवाससौधे यस्या देव्या आननं वदनमेवाम्भोरुहं कमलं तदेव वाससौधं वसनसदनं तत्र सातं सुखं यथा स्यात्तथा वसन्याः स्थिति कुर्वत्याः ॥ इति देवीचिबुकाः ।।
रेजेऽधरोऽस्या हरिमन्थकालात्प्रवासिनं यन्मुखचन्द्रपुत्रम् । हृल्लेखभाजा मिलितुं प्रवालः पयोधिनाहातुमिव प्रयुक्तः ॥ ९७ ॥ अस्या देव्या अधरः ओष्ठो रेजे राजते स्म । उत्प्रेक्ष्यते-पयोधिना समुद्रेण यस्या मुखमेव चन्द्रं खपुत्रमाहातुमाकारयितुमिव प्रवाल: समुद्रोत्पन्नत्वाद्विद्रुमः । अथ वा प्रकृष्ट उक्तसंदेशवाक्यकथको बालकः प्रयुक्तः प्रेषितः । किंलक्षणेन समुद्रेण । हल्लेखमुत्कण्ठामौत्सुक्यं भजतीति तादृशेन । किं कर्तुम् । मिलितुं पुत्रप्रेम्णा सङ्गं कर्तुम् । चन्द्रस्य समुद्रोत्पन्नत्वेन नन्दनत्वम् । किंभूतं चन्द्रम् । हरिणा विष्णुना मन्दराद्रिणा यो मन्यो मन्थनं तस्य काल: समयः तस्मादारभ्य प्रवासिनं परदेशे गतं पुनरागतम् अत एव मिलनोत्कण्ठा ॥
यदाननाङ्गीकृतविग्रहेण रदच्छदाङ्गः क्षणदाकरेण । प्रियौषधेरङ्गभवः किमेष प्रपाल्यते वप्तृतया प्रबालः ॥९८ ॥ यस्या देव्या आननं मुखं तदेव अङ्गीकृतः अभ्युपगतः गृहीतो विग्रहः शरीरं येन तादृशेन क्षणदाकरेण विधुना प्रियायाः खकान्ताया औषधेः फलपाकावसानिकायाः आभवस्तनुजः । चन्द्रस्यौषधीपतित्वात् पतिपत्नीसंबन्धः । प्रबालस्य चौषधीजातत्वादौषध्याः पुत्रत्वमेवोपपन्नम् । तथा रदच्छदोऽधरः स एवाझं यस्य तादृशः प्रवाल: पल्लवः प्रकृष्टो बाल: प्रवाल: । अथवा प्रकर्षेण बालकश्च वप्तृतया पितृत्वेन प्रपाल्यते सम्यतया पाल्यते । अन्यो वप्ता आत्मपत्नीसंजातमतीव बालकं निजनन्दनं प्रेम्णा प्रपालयति ॥