SearchBrowseAboutContactDonate
Page Preview
Page 425
Loading...
Download File
Download File
Page Text
________________ काव्यमाला। चिकीर्षता यन्मुखमात्तसारमात्मानमन्विष्य चतुर्मुखेन । गलन्मरन्दाश्रुकणाजराजीद्विरेफरावैरिव रारटीति ॥ ९२ ॥ गलन्तः पतन्तो ये मरन्दाः मधूनि मकरन्दबिन्दवस्त एवाश्रुकणा रोदने नयननिर्गतनीरविप्लुषो यस्याम्। तादृशी अब्जराजी कमलमाला। उत्प्रेक्ष्यते-द्विरेफरावैर्मधुकरगुअारवै रारटीति अतिशयेन रोदिति पूत्कृति वा कुरुते। किं कृत्वा। यन्मुखं यस्या शासनदेवताया वदनं चिकीर्षता कर्तुमिच्छता चतुर्मुखेन ब्रह्मणा आत्तं गृहीतं सारम् ।' 'सम्यग्मज्जा सारो मञ्जि' इति हैम्याम् । सारदलं वा खकीयसद्वस्तु यस्मात्तादृशमात्मानमन्विष्य विलोक्य ॥ यदीयचेतोवसतौ वसन्तं स्वमित्रपुष्पास्त्रनृपं निरीक्ष्य । किमागतस्तं मिलितुं मृगाको वक्रं चकासे सुरकम्बुकण्ठ्याः ।। ९३ ॥ सुरस्य कम्बुः त्रिरेखः एतावता दक्षिणावर्तशङ्ख तद्वत् रेखात्रिकाङ्कितः कण्ठो यस्या स्तस्याः । सुरकम्बुकण्ठ्याः सुरस्य कम्बुकण्ठ्या वध्वा इति वा । सुधाशनवध्वा वक्र वदनं चकासे दिदीपे । उत्प्रेक्ष्यते-यस्या इदं यदीयं चेतश्चित्तं तदेव वसतिर्वासवेश्म तत्र वसन्तं वासं कुर्वाणम् । देवीसंबन्धिनि हृदयसदने तिष्ठन्तमित्यर्थः । तथा खस्यात्मनो मित्रं सखायं पुष्पास्त्रनामानं मदनाभिधानं नृपं राजानं निरीक्ष्य व्यालोच्य । तं प्रति मिलितुमागतो गगनात्समागतः । किंभूतः । मृगाङ्कः शशधरश्चन्द्र इव ॥ यस्या मुखं स्वर्वनितार्चितायाः संवर्ध्य ताराततिमुक्तिकाभिः । स्वःसिन्धुतीरे किमु दिङ्मृगाक्ष्यो निमिच्य रात्रीमणिमुत्सृजन्ति॥९४॥ खःखर्गस्य वनिताः सीमन्तिन्यः ताभिरचिंतायाः पूजितायाः यस्याः शासनदेव. ताया मुखं वदनं निर्मिच्य नीराजयित्वा मुखस्य न्युञ्छनं कृत्वा । उत्प्रेक्ष्यते-दिङ्मृ. गाक्ष्यः दिगङ्गनाः खःसिन्धुतीरे खर्गगङ्गातटे रात्रीमणिं निशारत्नं चन्द्रम् । 'कथयति परिश्रान्ति रात्रीतमः सह युध्वना' इति नैषधे रात्रीशब्दो दीर्घोऽप्यस्ति । चन्द्रकान्त. रत्नमपि किमु उत्सजन्ति त्यजन्ति । किं कृत्वा । ताराणामाग्रहनक्षत्रतारकाणां ततयः श्रेणयः एव मुक्तिकाः लघुमुक्ताफलानि ताभिः । 'सिता वमन्त्यः खलु कीर्तिमुक्तिकाः' इति नैषधे । अथवा मुक्ता एव मुक्तिकास्ताभिः कृत्वा संवर्य वर्धयित्वा इदानींतन्या अपि सधववध्वः खगुरून्मुक्ताफलैर्वर्धयित्वा मणिप्रमुखं न्युञ्छनीकृत्य क्वचिन्मुञ्चन्तीति रीतिः ॥ इति मुखम् ॥ अगण्यलावण्यपयस्त्रिदश्या आस्यात्प्रसर्पद्विलसत्तरङ्गैः। मा स्ताहिस्तादिति निमभागं चक्रे विरश्चिश्चिबुकं किमन्ते ॥ ९५ ॥ विरश्चिब्रह्मा अन्ते वकप्रान्तप्रदेशे । उप्रेक्ष्यते-इतीव हेतोनिम्नो गम्भीरो नीची भागः प्रदेशो यस्य तादृशं चिबुकमसिकाधःप्रदेशं चक्रे निर्मितवान् । इति किम् ।
SR No.002262
Book TitleHeer Saubhagya Mahakavyam
Original Sutra AuthorN/A
AuthorDevvimal Gani, Shivdatta Pandit, Kashinath Sharma
PublisherKalandri Jain S M Sangh
Publication Year1985
Total Pages980
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy