________________
८ सर्गः)
हीरसौभाग्यम् । भूताः। भिक्षाणां सनुहो भैक्षं भुजन्यश्नन्तीति भैक्षभुजो भिक्षुकाः सान्यासिकयोगिप्र. मुखास्तान् भजन्तः सेवमाना इति विकल्पेन विचारानभिज्ञता । वैकल्पकारणमाह-किं कृत्वा । यस्या देव्याः कण्ठपीठेन गलकन्दलेन हठाद्वलादुपात्तां गृहीतामात्मनः खस्य भूषामाभरणादिलक्ष्मीम् । 'विनापि भूषामवधिः श्रियामसौ' इति नैषधे । आभरणगणमन्तरेणापि दमयन्ती श्रियां सुषमाणामवधिः सीमास्तीति' इति तदृत्तिः । दृष्ट्वा वि. लोक्य ॥ इति कण्ठपीठः ॥
यूनो मनोजन्मनृपस्य तस्या वपुलतायाः स निकेतभाजः । शृङ्गारभूषासुषमादिदृक्षोरिवात्मदर्शः शुशुभे तदास्यम् ॥ ९० ॥ तस्यास्त्रिदश्या आस्यं शुशुभे रेजे । उत्प्रेक्ष्यते-यूनस्तरुणस्य मनोजन्मनृपस्य स्मरराजस्य आत्मदों दर्पण इव । किंभूतस्य मनोजन्मनृपस्य ।यस्या देव्या वपुलता शरी. रयष्टी सैवावासाथै वासकृते निकेतं भवनं भजतीति तस्य । पुनः किं कर्तुमिच्छोः । शृङ्गारार्थ शोभाकृते या भूषा भूषणानि । 'तस्मै खभूषादृषदंशुशिल्पबलिद्विषः कार्मुक. मर्पयन्ती' इति नैषधे । “निजभूषणमणिकिरणगणव्यतिरेकेण' इति तदृत्तिः । तेषामाभरणानां सुषमां सातिशायिनी शोभाम् । 'सुषमा सातिशायिनी' इति हैम्याम् । 'सा अतिशायिनी शोभा सुषमा प्रोच्यते' इति तद्वत्तिः । तां दिदृक्षोः द्रष्टुमिच्छोः । 'ताव. देव ऋषिरिन्द्र दिढक्षुः' इति नैषधे । 'नारदर्षिरिन्द्रद्रष्टुमिच्छुः' इति तद्वृत्तिः ॥
कृष्णच्छविं भ्रूयुगलीं दधानं ज्योत्स्नासुधापायि चकोरचक्षुः । उत्सङ्गसङ्गीकृततारदन्तमास्यं त्रिदश्याः शशिबिम्बति स्म ॥ ९१ ॥ त्रिदश्याः शासनामाया आस्यं वदनं शशिबिम्बति चन्द्रमण्डलमिवाचरति । 'सर्वप्रातिपदिकेभ्यः क्विप् वाचारे इत्येके' इति विप्प्रत्यये शशिबिम्बतीति सिद्धम् । किं कुंर्वाणम् । लक्ष्म लाञ्छनं तद्वत्कृष्णा मेचका छविः कान्तिर्यस्यास्तादृशीं भ्रूयुगलीमूर्ध्वनयनयोरुपरिप्रदेशे रोमपद्धतिद्वितयीम् । 'उच्चै राज्यादिदानात्कलिकलुषमलक्षालनात्तामसानामुच्छिन्दाद्विघ्नभेदात्रिदशपतिकरस्पर्शनाद्दर्शनस्य । हेतुत्वात्सस्यसूर्याद्युदयफलपदखर्जनज्ञानभूत्वाद्धस्ते नाभेयदेवप्रभुपदयुगली..... गौरिवेह ॥ इति श्रीसोमसुन्द. रसूरिकृतस्तोत्रे युगलीशब्दः । दधानं बिभ्राणम् । पुन: किंभूतम् । ज्योत्स्ना चन्द्रिका ज्योत्स्नाप्रियत्वात् तथा सुधाममृतं पिबत इत्येवंशीलौ। 'कणे हृत्य चकोरीणां गणः पीत्वा सुधासवम् । अजायत मदेनेव गुञ्जापुआरुणेक्षणाः ॥ इति वस्तुपालकीर्तिकौमुद्यां चन्द्रोदयवर्णने यथा चकोराणां न्योत्स्नापानं तथा सुधापानमपि दृश्यते इति । चकोरौ ज्योत्स्नाप्रियावेव चक्षुषी यत्र । अथ वा ज्योत्स्नारूपां सुधां सुधारुचित्वात्पिबत इत्येवंशीली तादृशी चलचञ्चू एनत्तुल्ये वा चक्षुषी नेत्रे यत्र । पुनः किंभूतम् । उत्सङ्गो क्रोडे सङ्गोऽस्त्यासां तादृशाः कृतास्तारास्तारकाः । 'तारकाभकनीनिकयोस्तारौं' इति लिङ्गानुशासने नक्ष. त्रकनीनिकयोरर्थयोस्तारशब्द: पुंस्त्रीलिङ्गे । यथा 'तारस्तारा च' इत्यवचूर्णौ । एव दैत्यात्तद्रूपा वा तत्तुल्या वा दन्ता यत्र तत् ॥