SearchBrowseAboutContactDonate
Page Preview
Page 406
Loading...
Download File
Download File
Page Text
________________ ' ८ सर्गः] हीरसौभाग्यम् । ३४५ पीभवनाकण्ठं व्याप्तः संपद्यमानः अजिर्देवीपादः स एव शोणो हृदस्तस्मिन्यमन्किमु ब्रूडति स्मेव ॥ श्रीमज्जिनाधीशमताधिदेव्या जो विभूषामनघे दधाते । किमु प्रगल्भकमनामधेयवृन्दारकोर्वीरुहयोः प्रकाण्डे ॥ ३३ ॥ श्रीमांश्चतुस्त्रिंशदतिशयादिका लक्ष्मी त्रैलोक्याधिपत्यलक्ष्मीर्वा विद्यते यस्य स श्री. मान् यो जिनानां जयन्ति सर्वथापि रागद्वेषादिकानन्तरङ्गान् शात्रवानिति जिनास्तेषां सामान्यकेवलीनामधीशः खामी तीर्थकरोऽर्थान्महावीरभगवान् तस्य मतं शासनं तस्याधिदेव्या अधिष्ठायिकाया देवतायाः अनघे निष्पापे प्रशस्ये जचे नलकिन्यौ विभूषां शोमां दधाते कलयतः । उत्प्रेक्ष्यते-प्रगल्भौ प्रकृष्टौ यौ क्रमौ देवीपादौ तावेव नामधेयमभिधानं ययोस्तादृशयोर्वृन्दारकोर्वीरुहयोः कल्पवृक्षयोः। प्रकाण्डे किमु वृक्षस्कन्धाविव । 'मूलाच्छाखावधिर्गण्डिः प्रकाण्डौघः' इति हैम्यां प्रकाण्ड: पुंक्लीबलिङ्गयोः ॥ यस्याः प्रकाण्डस्फुरदुग्रजङ्घा सदृक्षलक्ष्मीस्पृहयालवः किम् । विषय भारं भवनव्रजानां स्तम्भा मनुष्यानुपकुर्वते स्म ॥ ३४ ॥ स्तम्भाः स्थूणाः भवनव्रजानां गृहगणानां भारं वीवधं विषह्य क्षान्त्वा मनुष्यानुपलक्षणात्सुरान् त्रिभुवनेऽपि गृहभाराधारभूतस्तम्भानां विद्यमानत्वेन एतावता त्रिज. गबनानुपकुर्वते स उपकारं कुर्वन्ति स्म । उत्प्रेक्ष्यते-यस्यास्त्रिदश्याः प्रकाण्डे वृक्षस्कन्धाविव स्फुरन्त्योः शोभमानयोः जक्योः सदृक्षलक्ष्म्याः समानविभूषायाः स्पृहयालवः किम् अभिलाषुका इव कामयितार इव ॥ सारङ्गनाभीसुरभेरमुष्या जङ्घाविभूषाभिरधःकृताभिः । - मृगाङ्गनाभिगिरिगह्वरोर्वी मन्दाक्षलक्ष्याभिरिव प्रपेदे ॥ ३५ ॥ मन्दाक्षस्य लजाया लक्ष्याभिर्वध्याभिनपातिरेककलिताभिगाङ्गनाभिहरिणरमणीमिः। उत्प्रेक्ष्यते-गिरिगवरोर्वी गिरीणां शैलानां गह्वराणां गुहानाम् , अथ वा निकुजाना. मुर्वी भूमिः । 'गहरो बिलभेदयोः । कुछे' इत्यनेकार्थः । तथा 'गौरीगुरोर्गह्वरमाविवेश' इति रघुवंशे । 'परस्परमिलच्छाखापटलपादपतिनिबिडवनमित्यर्थः' इति तद्वृत्तिः । प्रपेदे प्रपन्नेव । किंभूता। मृगनाभिः सारङ्गनाभिः कस्तूरिका । 'गोरोचनाचन्दनकुङ्कुमैणनाभी. विलेपा पुनरुक्तयन्ती' इति नैषधे । तथा कस्तूरिकानामापि । 'मृगनाभिगमदः कस्तूरीगन्धधूल्यपि' इति हैम्याम् । तद्वत्सुरभेः सुगन्धायाः । श्वासवपुःपरिमलकलिताया इत्यर्थः । अमुष्या वर्ण्यमानशासननिर्जरनितम्विन्याः जक्योनलकिन्योविभूषाभिः शोभाभिरधःकृताभिस्तिरस्कृताभिः । जिताभिरित्यर्थः ॥ जो यदीये प्रणयन्प्रयत्नात्प्रकाण्डसारं पृथिवीरुहाणाम् । जग्राह धाता किमभावि तेषु ततः स्फुरत्कोटरकूटरन्धैः ॥ ३६ ॥ ४४
SR No.002262
Book TitleHeer Saubhagya Mahakavyam
Original Sutra AuthorN/A
AuthorDevvimal Gani, Shivdatta Pandit, Kashinath Sharma
PublisherKalandri Jain S M Sangh
Publication Year1985
Total Pages980
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy