SearchBrowseAboutContactDonate
Page Preview
Page 405
Loading...
Download File
Download File
Page Text
________________ ३४४ काव्यमाला। खजिह्मयानेन विगानितः सन्नाखण्डलः कुण्डलिनामिवैताम् । सिञ्जानमञ्जीरविनिर्मिताङ्गः प्रसाहयत्यङ्क्रिपयोजलमः ॥ ३० ॥ कुण्डलिनां भुजंगमानामाखण्डल: पुरंदरः खामी शेषनामनागाधिराजः पादपयोजे क्रमकमले लम आश्रित्य स्थितः सन् । उत्प्रेक्ष्यते-एतां शासनदेवतां प्रसन्नां करोतीव । प्रसादकलितां निर्मिमीत इव । यो हि बलवन्तं निजजेतारं प्रसादयितुमिच्छति स तत्पदयोर्लगति । चाटुवाक्यानि ब्रूते । इति रीतिः । किंभूतः । सिआनं शब्दायमानं रणझणितिरावं कुर्वाणं यन्मञ्जीरं नूपुरं तदेव विहितं निर्मितमङ्गं वपुर्येन । पुनः किंलक्षणः सन् । खस्यात्मनो जिझेन वक्रेण यानेन गमनेन । यौवनोन्मादेन प्रायः स्त्रीणां गतिर्वक्री भवति । अपरोऽपि पाठः । यथा-'खश्लोकशौक्लयेन' खस्यात्मनः श्लोकस्य यशसः शौक्लयेन शुक्लतया वा विगानितोऽधरीकृतः ॥ इति चरणनूपुरम् ॥ . यया जगज्जैत्रतमश्रियाशिगुल्फः परां कोटिमवापितः सन् । पराक्षिलक्ष्यत्वमयांबभूव न चक्रवर्ती तु कंदाचनापि ॥ ३१॥ यया शासनदेवतया जगतां भुवनानां तात्स्थ्यात्तद्यपदेशात्रैलोक्यकामिनीनां जैत्रतमया अतिशयेन जैत्रया जयनशीलया श्रिया आत्मलक्ष्म्या परी प्रकृष्टां कोटिमुत्कर्ष काष्ठामवापितो नीतः सन् । पराक्षिलक्ष्यत्वम् अङ्गिगुल्फश्चरणप्रन्थिघुण्टकः कदाचनापि कस्मिन्नपि समये पराक्षिलक्ष्यत्वं परेषामन्येषां चक्षुष्मतामणोलोचनयोर्लक्ष्यत्वं दृश्यतां गोचरत्वं न अयांबभूव गच्छति स्म । 'अय गतौ' इत्यस्य धातोराम्प्रत्यये प्रयोगा यथा-अयांचक्रे, अयांबभूव, अयामासेति । क इव । चक्रेण मरखेचरेन्द्राद्यप्रतिहतेनामोघरथाङ्गायुधेन वर्तते । षट्खण्डक्षोणीमण्डलान्तरे प्रवर्तते दिग्विजयं विदधातीत्येवंशोलचक्रवर्ती सार्वभौम इति । यथा चक्री परेषां प्रत्यर्थिनां कदाचिदपि कस्मिन्नपि प्रस्तावे आजीवितान्तमक्षिलक्ष्यत्वं लोचनगोचरत्वं तां नायते न प्राप्नोति । प्रतिमटै पैदृष्टयापि द्रष्टुं न शक्यते इत्यर्थः । एतावता देवीगुल्फी न दृ. श्येते । स्त्रीणां गुल्फजानू अदृश्यावेव श्लाघ्येते इति सामुद्रशास्त्रे । तथा 'गुल्फद्वयाप्ता यददृश्यसिद्धिः' इति नैषधे ॥ यजङ्घयाधःकरणादुदीतत्रीडातिरेकादिदमीयगुल्फः । मन्ये न्यमज्जन्नवनिर्यदर्चिरर्णःप्रपूर्णीभवदशिशोणे ॥ ३२ ॥ यस्याः शासनसुराङ्गनायाः जक्या अधःकरणान्नीचेंविधानात्तिरस्करणाद्वा उदीता प्रकटीभूता । 'उदीतमातङ्कितवानशङ्कत' इति नैषधे । या ब्रीडा लजा तस्या . अतिरेकादतिशयात् अस्या अयमिदमीयः । 'मध्यं तनूकृत्य यदीदमीयम्' इति नैषधे । देवीचरणसंबन्धी गुल्फो घुण्टकः । अहमेवं मन्ये वितर्कयामि । नवानि नवीनानि निर्यन्ति प्रादुर्भवन्ति यान्य/षि अर्थात्तत्क्रमकान्तयः तान्येवार्णासि पानीयानि तैः प्रपू
SR No.002262
Book TitleHeer Saubhagya Mahakavyam
Original Sutra AuthorN/A
AuthorDevvimal Gani, Shivdatta Pandit, Kashinath Sharma
PublisherKalandri Jain S M Sangh
Publication Year1985
Total Pages980
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy