________________
३४६ .
काव्यमाला।
यस्या इमे यदीये देवतासंवन्धिन्यौ जो प्रयत्नात्सादरादेकतानतया वा एकाप्रम. नसा प्रणयन्कुर्वन् सन् धाता जगत्कर्ता पृथिवीरहाणां रमणीयसान्द्रद्रुमाणां प्रकाण्डानां सारं सारदलिकपटलं जग्राहाददे गृहीतवान् । उत्प्रेक्ष्यते-ततः सारवस्तुग्रहणानन्तरं तेषु प्रकाण्डेषु तरुस्कन्धेषु स्फुरन्तः प्रकटीभवन्तो ये कोटरा: निष्कुहाः । 'पोलाडि' इति लोके प्रसिद्धाः । त एव कूटं कपटं येषां तादृशै रन्धैश्छिद्ररभावि भूतम् । संजातमित्यर्थः ॥ इति ज॥
कपोलयुग्मेन मरुधुवत्या तिरस्कृते दर्पणिके विभूत्या । गुप्तं स्थिते जानुनिभादुपेत्य जेतुं द्विषं छिद्रदिक्षयेव ॥ ३७ ॥ दर्पणिके आदर्शिके । 'यन्मती विमलदर्पणिकायाम्' इति नैषधे । उपेत्य । कुतश्चिदागत्य गुप्तं छन्नं स्थिते तिष्ठतः स्म । कस्मात् । जान्वोर्जानुनो रूपवर्णोनिभाइम्भात् । अर्थात् तद्देवी वपुष्येवोषिते । उत्प्रेक्ष्यते-द्विषं स्वशात्रवं जेतुं पराभवितुं छिद्राणां वैरिणोरपगुणानां दोषाणां येगवेषितैदोंषैः स्वद्वेषी सुखं निमेषमात्रानिहन्यते निर्जी• . यते वा । तद्रन्ध्राणां दिदृक्षया द्रष्टुमिच्छयेव । तथा दोषे ज्ञाते सति शत्रुः सुखेन पराभूयते इति लोकेऽपि प्रसिद्धिः । तस्मात् किंलक्षणे दर्पणिके । मरुावत्याः गीर्वाणगृहिण्याः । शासनदेव्या इत्यर्थः । कपोलयुग्मेन गल्लयामलेन विभूत्या स्वीयवैभवेन कृत्वा तिरस्कृते तिरस्कारं न्यकार प्रापिते । पराभूत इत्यर्थः । गुप्तमिति विशेषणात् दृश्यते । 'निगूढजाणु-' इति कल्पसूत्रेऽपि लक्ष्मीवर्णने ॥
आदर्शिकाघानि मिथो मृधेषु यजानुना स्पर्धितया स्वकान्त्या । ततः किमु प्रापदतुच्छमूर्छा न वेद चैतन्यवती किमेषा॥ ३८॥ यजानुना यस्या देवताया नलकीलेन स्वस्यात्मनः कान्या विभूषया । 'कान्तिः शोभायामिच्छायां प्रभायामपि' इत्यनेकार्थः । समं सार्धे स्पर्धितया स्पोद्भावुकभा. वेन संहर्षित्वेन मिथो मृधेषु परस्परक्रोधोद्धततया विधीयमानयुद्धेषु आदर्शिका मुकुरिका लोके मेवातमण्डलादौ यस्या अधो हस्तको न स्यात् पृष्ठे च ग्रहणाई किमप्यङ्कटकादि भवेत्तस्या अभिधानम् 'आरसी' इत्युच्यते । अघानि दृढप्रहा. रादिभिनिहता । उत्प्रेक्ष्यते-ततः प्रहारादिहेतोरतुच्छामतिघनां वालयितुमशक्यां मूर्छा मोहचैतन्याभावं किमु प्रापल्लब्धवतीव । एवं चेन्न तर्हि एषा आदर्शिका अचैतन्यवती चेतनाया भावश्चैतन्यं तद्विद्यते यस्याः सा चैतन्यवती न चैतन्यवती अचैतन्यवती चेतनाविरहिता किं कथं लक्ष्यते ॥ इति जानू ।। रम्भास्फुरद्वैभवयत्सुपर्वसारङ्गटक्केलिनिकेतनस्य । अन्तर्वसत्सालसदृक्स्मरस्य स्तम्भौ प्रगल्भौ स्फुरतः किमूरू ॥ ३९ ॥ गुरू अर्थाद्यस्याः स स्फुरतः शोभते । उत्प्रेक्ष्यते-रम्भा नामाप्सरास्तद्वत्स्फुरन् प्रकटीभवन् दीप्यमानो वा वैभवो वपुःशोभातिशयः तादृशी या सूरिपुरस्कारस्थायुका