SearchBrowseAboutContactDonate
Page Preview
Page 394
Loading...
Download File
Download File
Page Text
________________ • सर्गः] हीरसौभाग्यम् । समस्ता अपि नरा भूचराः पुरुषाः दुग्वाम्भोनिधेः क्षीरनीरधानर्जरा अधिष्टातृसुरा इव संजज्ञिरे । ते हि अतीव शुभ्रवपुर्वसनविभवाः स्युः । अत एव तदुपमानम् । पुनखस्यन्त्यत्रासं प्रामुवलो याः कुरड्यो मृगागनास्तद्वत्तरलायश्चला दृशो यासाम् । एतावता वनिताः सर्वा अपि खःसिन्धोर्गङ्गाया अधिदेवता इव अधिष्ठायिका देवता गङ्गादेव्य इव वभुः शोभन्ते स्म । पुनमें दिनी पृथ्वी । उत्प्रेक्ष्यते-स्फारा अना ये स्फाटिकाः स्फटिकमणिसमूहास्तेषु रत्नान्यतीव सारमणयः मुख्यानि वा । यदुक्तम्-'येषा मन्दररनसलशिखरे जन्माभिषेकः कृतः' इति नातस्य स्तुतौ । मन्दराणां धातु खण्ड. पुष्करायद्वीपसत्कानां चतुर्णा मेरूणां मध्ये रत्नं सर्वेभ्य उच्चस्तरत्वेन लक्षयोजनप्रमाणत्वेन मुख्य इत्येकव्याख्या । तेषां स्फाटिकमणीनां कोट्यस्ताभिः कृत्वा घटितेव निष्पादिते. बासीभूव भूमी ॥ इति चन्द्रिकाभ्युदये विविधा भावाः ॥ विजयिन इव राज्ञः श्वेतभासो विभाव्या_ भ्युदयमखिलकाष्ठामध्यराजत्करस्य । विहितसकलसंध्यावश्यको ध्यानलीला कमलकलमरालः स म भूत्सूरिराज्ञः ॥ ९ ॥ स श्रीहीरविजयनामा सूरीणामाचार्याणां मध्ये दीप्यमानत्वात्प्रतापवत्त्वाद्वा राजा। अथ वा राजा मुख्यः। स ध्यानं सूरिमबजापरूपप्रणिधानं तदेव लीलाकमलं क्रीडाकरणोचितमरविन्दं तत्र कलमरालः कलहंसः । 'कलमरालविहंगमवाहना' इति वाग्देवता. स्तोत्र । प्रकृष्टो राजहंसों वा। स्म भूदजायत। 'स्मयोगेऽप्यटो लोपमिच्छन्ति। म भूत्' इति सारखतव्याकरणे । स किंलक्षणः । विहितं कृतं पकलं समस्तं संध्यायां दिनावसाने .आवश्यक प्रतिक्रमणादिविधिर्येन । अथ वा निर्मितसंख्यासंबन्धिकमावश्यकमवश्यकतव्यं येन । किं कृत्वा । श्वेतभासः सितकान्तेश्चन्द्रस्याभ्युदयं विभाव्य । 'पश्यति विमावय. त्यपि विलोकते वीक्षते गवेपयति' इत्यादि क्रियाकलापे विलोकनार्याः क्रियाः । .. स्येव । विजयिनः सर्वत्राप्यप्रतिहतपराक्रमत्वेनानेकराजचक्रजयनशीलस्य राज इव नृपस्य । किंभूतस्य चन्दस्य राज्ञश्च । अखिलानां समग्राणां काष्टानां दिशा मध्ये राजन्तो दीप्यमानाः कराः किरणा राजदेयांशा यस्य ॥ यं प्रासूत शिवाह्वसाधुमघवा सौभाग्यदेवी पुनः पुत्रं कोविदसिंहसीहविमलान्तेवासिनामनिमम् । तद्रालीक्रमसेविदेवविमलव्यावर्णिते हीरयु क्सौभाग्याभिधहीरसूरिरचिते सर्गोऽगवत्सप्तमः ॥ ९५ ॥ चिन्समिदमिति शमापिका..
SR No.002262
Book TitleHeer Saubhagya Mahakavyam
Original Sutra AuthorN/A
AuthorDevvimal Gani, Shivdatta Pandit, Kashinath Sharma
PublisherKalandri Jain S M Sangh
Publication Year1985
Total Pages980
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy