________________
३३१
काव्यमाला।
अत्र श्रीहीरसौभाग्यन्गम्नि महाकाव्ये सप्तानां संख्यापूरणः सप्तमः सर्ग: अकारनामविशेषोऽमवसंजातः ॥ इति पण्डितसीहविमलगणिशिष्यपण्डिन देवविमलगाणेविरचितायां खोपज्ञहोरसौभाग्यमहाकाव्यवृत्ती वर्षांशरत्समयसूर्यास्त संध्यारागति मिरतारकचन्दो.
दयचन्द्रिकाप्रचारादिवर्णनो नाम सप्तमः सर्गः ॥
अष्टमः सर्गः । अथो निशीथे द्विजराजराजज्ज्योतिःप्रथाभिर्मथितान्धकारे । निवातनालीक इव वतीन्दुर्ध्यानं दधानः स्तिमितीवभूव ॥१॥
अयो चन्द्रोदयचन्द्रिकाप्रसारानन्तरं ध्यानं मनो निश्चलीकरणानन्तरं वा निशीथेऽर्थरात्रे ध्यानं सूरिमन्त्रप्रणिधानं दधानः । कुर्वाण इत्यर्थः । सन्त्रतीन्दुः मूरिशीतकान्तिः । नियातनालीक इव वातवेगाभावेन निष्प्रकम्पपद्मवत्स्तिमि तीवभूव निश्चलो जातः । 'निवातपस्तिमितेन चक्षुषा' इति रची। किंस्ते निशीथे । द्विजानां राजा चन्दस्तस्य राजतां दीप्यमानानां ज्योतिषां किरणानामचिन्द्रिलाणां प्रधाभिर्विस्तारैः कृत्वा माथत निर्दलितमन्धकार ध्वान्तं यत्र । नालीकशब्दः पुंक्लीवलिङ्गयोः ।,
पर्यङ्कबन्धः स विभोव्रतश्रीविलासपर्य इवावभासे । कथं भरोऽमुध्य मया विपरो हृदेति यस्मिन्समशेत शेषः ॥२॥ विभोः सूरीन्द्रस्य स यो ध्यानसमये विहितः पर्यवन्धः पद्मासनरचनाविशेषः आवभासे सामस्त्येन शोभते स्म । उत्प्रेक्ष्यते-व्रतथिया संयमलक्ष्या विलासार्थ क्रीडाकृते पर्यः पल्यडू इव । स कः । यस्मिन् पर्यवन्धे शेषः शेषनामा नागाधिराजो हृदा स्वमनसा इत्यमुना प्रकारेण समशेत संशयं कृतवान् । इति किम् । यदमुध्य पर्यबन्धस्य भरो भारोऽसहायेन एकेनैव मया कथं केन प्रकारण विषह्यो विशेषेण सहनीयः । धार्य इत्यर्थः । ध्यानभाजां हि योगीन्दाणां ध्यानसमये पर्यवन्धस्यातिशायी भारो भवतीति कविसमयः । यदुक्त कुमारसंभवे-'सतो भुजंगाधिपते: फणारधः कयंचिद्भुतभूमिभागे । शनैःकृतप्राणविमुक्तिराशेः पर्यवन्धं निविडं विभेद ॥ इति ॥
भुजान्तरासन्नशयारविन्दे विभोश्चकासे विशदाक्षमाला। हृद्ध्यानदुग्धाम्बुनिधिप्रतीरं प्रपेदुषी किं कलहंसपतिः ॥ ३ ॥
भुजान्तरस्य वक्षःस्थलस्य आसन्ने सापवर्तिनि शयारविन्द करकमले धवलवा. अक्षमाला जपमालिका चकासे भासते स्म । उत्प्रेक्ष्यते-हृदि हारविजयसूरिहृदयवि. षये यो ध्यानं शुक्लप्रणिधानं तदेव दुग्धाम्बुनिधिः क्षीरसमुदस्तस्य प्रवीर तटं प्रपेदुशो