________________
३२०
काव्यमाला। कुतूहलेन कौतुकेनाकान्तमाकुलितं व्याप्तं वा मनो यस्य तादृक् सन् प्रमातुकामः प्रमाणीकर्तुमना इव ॥
तेपे तपो भूधरगहरान्तस्त्यक्ताशनाम्भः प्रतिवासरं यत् ।
व्योमावनीव्यापकसिद्धिरस्मादलम्भि भूच्छायभरैरिवैषा ॥ १४ ॥ भूच्छायभरैः संतमसमूहैर्भूधराणां पर्वतानां गह्वराणां गुहानां महाकन्दराणामन्तमध्ये अर्थात्स्थिला प्रतिवासरं दिवसं दिवसं प्रति त्यक्ते अशनाम्भसी आहारपाने यत्र, तादृशं क्रियाविशेषणं वा मुक्तानपानं यथा स्यात्तथा तपस्तेपे । नियमविशेषकष्टं तप्तम् । उत्प्रेक्ष्यते-अतोऽस्मादुग्रतपसः एषा प्रत्यक्षलक्ष्या व्योमावन्योर्नभोभूम्योापनरूपा सिद्धिः फलनिष्पत्तिर्लब्धिविशेषा अलम्भि लब्धा संप्राप्ता ॥ इत्यन्धकारा. . विर्भवनम् ॥ .
अथोददीप्यन्त नभःपदव्यां झगज्झगित्युस्रविमिश्रताराः ।
खकान्तमायान्तमवेत्य रात्र्या पुष्पोपचारो व्यरचीव मार्गे ॥ ५५ ॥ अथ तमःप्रसारानन्तरं झगज्झगिति कृद्भिदेदीप्यमानैरुपैः किरणैर्विमिश्राः करम्बितास्तादृशास्तारास्तारका ज्योतिर्मण्डला नभःपदव्यां गगनमार्गे उददीप्यन्त प्रस्फुरन्ति स्म।उत्प्रेक्ष्यते-खकान्तं निजवल्लभं रात्रिपतिलाच्चन्द्रम् । 'रोहिणीद्विजनिशीषधीपतिः' इति हैमीवचनात् । मायान्तमागच्छन्तम् । खपार्श्वे इत्यध्याहारः । अवेत्य विज्ञाय राच्या चन्द्रपन्या। 'उषादोषेन्दुकान्ता' इति हैम्याम् । मार्गे भर्तुरागमनस्याध्वनि पुष्पोपचारः कुसुमप्रकरो व्यरचि विरचित इव ॥ . .
कुक्षिभरि क्षोणिनभःपदव्यो दृप्ताहितं संतमसं जिघांसोः ।
ताराः वयं राज्ञ इहायियासोः पताकिनीव प्रसृता पुरस्तात् ॥१६॥ इह जगति गगनाङ्गणे वा खयमात्मनायियासोरागन्तुकामस्य राज्ञः रजनीजीवि. तवल्लभस्य पार्थिवपुंगवस्य च पुरस्तादग्रे तारास्तारकारूपा पताकिनी सेनेव प्रसूता प्रसरति स्म । यत्र राज्ञोऽभिषेणनाभिलाषस्तत्र पुरस्त्वरितमनीकं प्रसरतीति रीतिनीतिश्च । राज्ञः किं कर्तुमिच्छोः । क्षोणिनभःपदव्योश्चतुर्दिगन्ति]सागरान्तगगनाम्बरमण्डलयोः कुक्षिभरि भृतमध्यम् । तथा दृप्तं जगदाक्रम[ण]कारकम् । तथा अहितं प्रतिपक्षम् । 'ध्वान्तस्य रविचन्द्ररत्नदीपकाविपक्षाः' इति काव्यकल्पलतायाम् । संतमसमन्धकार जिघांसोर्हन्तुमिच्छोः । अन्योऽपि बलवान् भूपतिर्दृप्तं भुवमाकामन्तं बलिष्ठं प्रतिपन्थिनं हन्तुमिच्छति ॥
चिरंविनोदैर्दिननायकेनाभिकेन साकं सुरवर्मलक्ष्म्या । नक्षत्रलक्षात्किमशेषवक्षः श्रमाम्बुभिर्बिन्दुकितं बभूव ॥ ५७ ॥