________________
७ सर्गः] हीरसौभाग्यम् ।
३१९ अङ्काच्युताया रभसेन बाल्याल्लीलां सृजन्त्याः खपितुर्गभस्तेः ।
जामेर्यमस्येव पयःप्रवाहै ते नभोभूमितले तमोभिः ॥ ५० ॥ तमोभिस्तिमिरैर्नभोभूमितले नभस्तलं भूमीतलं च भृते व्याप्ते बाल्याद्वालखभावाश्लीलां क्रीडाम् । 'फ्रीडा लीला च नर्म च' इति हैम्याम् । सृजन्याः कुर्वन्त्याः खस्य जनकस्य पितुर्गभस्तेर्भास्करस्य अकादुत्सङ्गात् रभसेनौत्सुक्येन च्युतायाः पतितायाः यमस्य शमनस्य जामेर्भगिन्या अलभत । शमनखसुः शिशुत्वम् "दिवसकराङ्कतले चला लुण्ठन्ती' इति नैषधे । यमुनायाः पयःप्रवाहैः सलिलीधैरिव व्योममहीमण्डले निर्भर भृते । कालिन्द्याः कृष्णजलत्वेनेयमुत्प्रेक्षा ॥
रथाङ्गनाम्नां दिवसावसाने वियोगभाजां सममङ्गनाभिः । .. स्फुरद्विषादानलधूमलेखा मन्ये तमिस्रा बहुलीबभूवुः ॥ ११ ॥ तमिस्रा अन्धकाराणि । तमिस्रशब्दः स्त्रीक्लीवलिङ्गयोः । बहुलीबभूवुः निबिडा नीरन्ध्राः संजायन्ते स्म । तत्राहमेवं मन्ये विचारयामि । दिवसावसाने दिनपर्यन्ते संध्याया एवारभ्य अङ्गनाभिः खोयवल्लभाभिः रथाङ्गविहंगमीभिः समं सार्धे वियोगभाजां परस्परविश्लेषकुलितानां रथाङ्गनाम्नां चक्रवाकानां स्फुरन्त्यः प्रकटीभवन्त्यः विषादः खेदः स एवानलो हुताशनः तस्य धूमानां लेखाः श्रेणय इव ॥
गते गवां स्वामिनि नाभ्युदीते राजन्यथाराजकवद्विभाव्य ।
खैरप्रचारेण जगत्समग्रमुपाद्रवद्दस्युरिवान्धकारः ॥ १२ ॥ अन्धकारः खैर खेच्छया प्रचारेण द्यावाभूम्योः संचरणेन दस्युरिव प्रत्यर्थीव चौर • इव वा समनं जगत्सर्वमपि भुवनमुपाद्रवदुपद्रवति स्म । किं कृत्वा । गवां किरणानां
पृथिवीनां च खामिनि नायके भानौ भूधने च । 'गोखामिनि स्फुरिततेजसि दृष्टमात्रे' इति कल्याणमन्दिरस्तवने । क्वापि कुत्रापि गते अस्तमिते परजनपदे प्रयाते मृते वा सति अथ पश्चात् राजनि चन्द्रे पट्टधरनृपे च नाभ्युदीते नोदयं प्राप्ते पट्टे स्थापिते
च । अत एवाराजकवनिःखामिकमिव जगद्विभाव्य निरीक्ष्य । 'हा हा महाकष्टमराजकं .. जगत्' इति मृगयावर्णने धनपालोक्तिः ॥
कियद्विहायः कियती क्षितिवो प्रमातुकामस्तमसां समूहः । ... कुतूहलाक्रान्तमना इतीव द्यावापृथिव्योः प्रसरीसरीति ॥ १३ ॥
तमसामन्धकाराणां समूहो यावापृथिव्योर्नभोभूमण्डलयोः प्रसरीसरीति अतिशयेन प्रसरति । उत्प्रेक्ष्यते-विहायो गगनं किंप्रमाणमस्येति कियत् । तथा वा पुनः क्षितिः पृथिवी कियती कियत्प्रमाणा । 'किचती पञ्चसहस्री कियती लक्षा च कोटिरपि कियती। औदार्योन्नतमनसां रत्नवती वसुमती कियती ॥' इति सूक्तोक्तिः । इत्यमुना प्रकारेण