SearchBrowseAboutContactDonate
Page Preview
Page 379
Loading...
Download File
Download File
Page Text
________________ ३१८ काव्यमाला। पापा वा वस्यात्मनोऽवसरं प्रस्तावं वेलामभ्युदयसमयं वा प्रपद्य प्राप्य । हन्त इति खेदे । परेषामन्येषामात्मव्यतिरिक्तानामुदयमुनातें कुतः सहन्ते । अपि तु नीचखभावान्न सहन्ते एव ॥ इति संध्यारागतमिस्रवर्णनम् ॥ पुरारिकंसारिपदप्रसत्तेरजय्यवीर्य शशिनं निशम्य । ध्वान्तोपधेस्तानि निघृक्षयेव तमोभिरभ्रे बहुभिर्बभूवे ॥ ४७ ॥ ध्वान्तानामन्धकाराणामुपधेर्व्याजात् । उत्प्रेक्ष्यते--तमोभिः खर्भानुभिरभ्र आकाशे बहुभिर्घनैर्बभूवे संजातमिव । अनेके विधुतुदा बभूवुरित्यर्थः । कया। तस्य खकवलायमानस्य शशिनो निजिघृक्षया निग्रहीतुमिच्छया निग्रहं कर्तु काङ्ग्या । किं कृत्वा । पुरनाम्रो दैत्यस्य अरिः शत्रुरीश्वरस्तस्य तथा कंसनामासुरस्य अरिद्वेषी तस्य च पदस्य क्रमस्य विष्णुपदस्य प्रसत्तेः प्रसादात्सेवानुभवाजेतु मशक्यमजय्यं वीर्य पराक्रमो यस्य तादृशं शशिनं चन्द्रं निशम्य आकर्ण्य ॥ क्वचिजगत्साक्षिणमेक्ष्य यातं जगजगज्जीवपिनो जिघत्सुः । स्वीयं विभाव्यावसरं स्मरारिभूच्छायकायां सृजतीव मायाम् ॥४८॥ जगजीवपिबः विश्वप्राणहरः । ईश्वररूपेण संहारकारकत्वात् । जीवेऽत्सुजीवितप्राणाः' इति हैम्याम् । तथा 'क्षये जगजीवपिबं शिवं वदन्' इति नैषधे । स्मरारिरीश्वरः खी. यमात्मीयं तमसोऽभ्युदयत्वात् शिवस्तु तमः प्रगुणः अत एव अवसरं प्रस्तावं समय विभाव्य विलोक्य ज्ञात्वा वा । उत्प्रेक्ष्यते-जगद्विश्वं जिघत्सुः खादितुमिच्छुः भूच्छायं निबिडतमतमिस्रमेव कायः शरीरं यस्यास्तादृशीं मायाम् । शाम्बरीकपटविद्यामित्यर्थः । सृजतीव करोतीव । किं कृत्वा । जगत्साक्षिणं शुभाशुभकर्मकर्तृणां जगजनानां प्रतिभुवं भास्करं क्वचित्कुत्रापि दृग्गोचरप्रदेशे यातम् एक्ष्य विभाव्य ॥ पशोरिवोर्वीदिवगोचरस्य ध्वान्तस्य भोः पश्यत मन्दिमानम् । . निहन्यमानोऽपि मुहुः करेण चण्डद्युता धावति रोदसोर्यत् ॥४९॥ भो लोकाः पण्डिताः, यूयं पशोस्तिरश्च इव छागस्येव वा ध्वान्तस्य निशान्धकारस्य मन्दिमानं मूढतां मूर्खतामज्ञानतां पश्यत विलोकयत । 'अथोदयति निर्दोष सचिवेन्दी नवे रवेः । कोकको कनदानन्दिमन्दिमानमगान्महः ॥' इति वस्तुपालकीर्तिकौमुद्यां सूर्यास्तमनवर्णने । किंभूतस्य । उव/दिवगोचरत्य द्यावाभूमीविषयस्य पशोरपि भूनीप.. र्वतायूलस्थाने चरणगोचरो यस्य । यद्यस्मात्कारणात् चण्डद्युता अत्यन्तकोपना कान्तिर्यस्य । कोपारुणीभूतेनेत्यर्थः। तादृशेन पुंसा करेण किरणेन खरेण करेण हस्तेन चपेटादिप्रदायिपाणिना मुहुर्वारंवारं निहन्यमानः ताज्यमानं हस्तपादप्रभृतिप्रहृतिभिः व्यापाद्यमानं वधादिभिः सत् रोदसोर्दिवस्मृथिव्योर्धावति पुनः पुनः समायाति । ध्वान्तशब्दः पुनपुंसकलिङ्गयोः ॥
SR No.002262
Book TitleHeer Saubhagya Mahakavyam
Original Sutra AuthorN/A
AuthorDevvimal Gani, Shivdatta Pandit, Kashinath Sharma
PublisherKalandri Jain S M Sangh
Publication Year1985
Total Pages980
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy