________________
३०८
काव्यमाला। मुखेषु क्रीडाकृतानेकवदनेष्विव । पुनः केषु सत्सु । रङ्गत्सु लीलया अशनाद्यर्थ वा इतस्ततो भ्राम्यत्सु खञ्जनेषु खञ्जरीटेषु 'गंगेटिया'ख्यपक्षिविशेषेषु सत्सु । वर्षाकाले हि खजनानां शिरःसु शिखा समायाति तदनुभावाददृश्यीभावं भजन्ते । ततः शरदि पुनः शिखापाताच्चक्षुर्लक्षतामाकलयन्ति तेनेतस्ततो भ्रमणं कुर्वते । तदुपर्युत्प्रेक्षा । उत्प्रेक्ष्यतेशरलक्ष्म्या नेत्रेषु स्त्रीखभावाच्चञ्चललोचनेष्विव । 'भवत्कृते खञ्जनमञ्जलाक्षि' इति बिल्हणपश्चाशिकायाम् । पुन: केषु सत्सु । स्मेराणां विनिद्राणां सरोजानामरविन्दानां पौष्पेषु परागेषु निष्पातिनो निपतनशीला आगत्य मकरन्दपानकृते निलीय स्थिति कुर्वाणाः तथा खच्छन्दमाकण्ठमकरन्दाखादनोन्मदिष्णुभवदमन्दानन्दं शब्दायमाना गुञ्जन्तः गुआरनं विदधाना मधुकृतां भ्रमराणां व्रजाः समूहास्तेषु सत्सु । उत्प्रेक्ष्यते-अस्याः शरलक्ष्म्या बन्दिषु मङ्गलपाठकेष्विव । पुनः कासु सतीषु । उद्दामा: परिपाकप्राप्तत्वेन मनोरमा ये कलामकाः कलमशालयः । 'कलमस्तु कलामकः' इति हैम्याम् । तेषामोघाः समूहास्तैरवदाता उज्वलाः । केदाराणां वसुंधरा भूमयस्तासु सतीषु । उत्प्रेक्ष्यतेशरदिन्दिरायाः पटीषु उत्तरीयनिवसनेष्विव । पुनः कासु सतीषु । विविधासु श्वेतरक्तनीलपीतकृष्णाद्यनेकविधासु । तथा लीना मधुपानकृते मध्ये प्रविश्य स्थिताः शिलीमुखा भृङ्गा यासु तादृश्यासु(शीषु) स्मेरासु हसितासु सुमानां पुष्पाणामावलीषु.श्रेणीमु सतीषु । उत्प्रेक्ष्यते-अस्याः शरदिन्दिराया विविधप्रकारामु भूषासु आभरणेष्विव । 'विनापि भूषामवधिः श्रियामसौ' इति नैषधे । 'भूषा भूषणानि' इति तद्वृत्तिः । त्रिभिर्विशेषकम् । इति शरत्समयः ॥
विधेनियोगेन निजास्तपश्यान्पुत्रानिवोत्सङ्गजुषः स्वरश्मीन् ।
दृष्ट्वा यियातूंस्तदुदीतकोपादिवारुणीभूतमथारुणेन ॥ १४ ॥ अथास्ताचलसमीपगमनानन्तरम् अरुणेन भास्करेण अरुणीभूतं रक्तनाभूयत । उप्रेक्ष्यते तदुदीतकोपादिव तेषु खरदिमषु उदीतः प्रादुर्भूतो. यः कोप: क्रोधस्तस्मादिव । किं कृत्वा । दृष्ट्वा अवलोक्य । कान् । खरश्मीन् आत्मीयकिरणान् । किंभूतान् । उत्सङ्ग कोडं जुषन्ते भजन्ते । उत्प्रेक्ष्यते-पुत्रानन्दनानिव । पुनः किंभूतान् । विधे. दैवस्य नियोगेन परवशतया निजस्य सूर्यात्मनः अस्तं क्षयं पश्यन्ति विलोकयन्तीति । अत एव किं कर्तुमिच्छून् । यियासून् आत्मनः पार्श्वदन्यत्र कुत्रचिद्गन्तुमिच्छून् ॥
जहेऽम्बरं सायमशीतभासा नीत्वास्तधात्रीधरगह्वरान्तः ।
प्रदोषनाम्ना परिमोषिणेवासहायिभावेन बलाद्गृहीतम् ॥ १५ ॥ न विद्यन्ते शीताः शिशिराः शीतला भासः कान्तयो यस्योष्णरश्मित्वात् अशीतभास्तेनाशीतभासा भानुना सायं संध्यासमये अम्बरमाकाशं वसनमपि जहे त्यक्तम् । उत्प्रेक्ष्यते-प्रदोष इति नाम यस्य तेन प्रदोषनाम्ना परिमोषिणा तस्करेण । यामिनीमुखचौरेणेत्यर्थः । अस्तधात्रीधरः पश्चिमाचलः तस्य गट्ठरान्तः गुहामध्ये घनद्रुमगहन