________________
७ सर्गः हीरसौभाग्यम् ।
२०७ मेव ध्वनन्तः शब्दायमाना वाघमाना वा स्मरध्वजा वाद्यानीव । 'वाद्यं वादित्रमातोद्यं तूर्य तूरं स्मरध्वजः' इति हैम्यां वादिवनामानि ॥
निर्मुष्टनिःशेषनिषद्वरायाः किं वर्ण्यतेऽस्याः शरदिन्दिरायाः ।
जडाशयानप्यसृजत्प्रसन्नाशयान्कविश्रीकलितांश्च यत्सा(द्या)॥१०॥ __ अस्याः हीरविजयसूरिध्यानसमयसमेतायाः शरदिन्दिराया जलधरविरामलक्ष्म्याः किम् अर्थाद्वीप्सा किं किं माहात्म्यं Wते प्रशस्यते । किंभूतायाः । निर्मुष्टो निःशेषेण मृष्टो निवारितोऽपहृतो वा निर्गतः शेषो लवलेशमात्रो निषद्वरः कर्दमो यस्याः । अथवा निर्मुष्टो निर्धूतः शोषं नीतो निःशेषः समस्तोऽपि कर्दमो यया । यद्यस्मात्कारणात् या शरलक्ष्मीर्जडाशयान् जडस्वभावान् जडहृदयान्वा । मूर्खानित्यर्थः । प्रसन्ना. शयान् निर्मलीभूतमध्यान् प्रसन्नतायुक्तखभावान् झगित्यर्थावबोधगोचरत्वं प्रसादगुणस्त. युक्तचित्तान् त्वरितमेव शास्त्रार्थमतबुध्यन्ते तादृशान्। पण्डितानित्यर्थः । असृजत्कृतवती। च पुनः कवित्वेन पाण्डित्येन काव्यकर्तृत्वेन वा । 'विद्वान् सुधीः कवि विचक्षणलब्धवर्णाः' इति हैम्यां पण्डितनामानि । तथा 'वयमपि कवयः कवयः [कवयः] कवयश्च कालिदासाद्याः' इति कविशब्देन काव्यकर्तापि । या श्री: शोभा लक्ष्मीर्वा तया कलितान्युक्तान् करोति स्म । तत्त्वतस्तु डलयोरैक्यात् जलाशयांस्तडाकादिनीरस्थानानि
खच्छमध्यान् तथा कस्य पानीयस्य वयः पक्षिणो हंसादयस्तैः सहितांश्चके । वर्षासु हंसा हि मानससरसि यान्ति । शरदि पुनः कमलकलितेषु निर्मलसलिलेषु सरःसु समायान्ति इति कविसमयः ॥
स्मितेषु पद्मेषु मुखेष्विवास्या रङ्गत्सु नेत्रेष्विव खञ्जनेषु । बन्दिष्विव स्मेरसरोजपौप्पनिष्पातिगुञ्जन्मधुकृद्रजेषु ॥ ११ ॥ पटीप्विवोद्दामकलामकौघावदातकेदारवसुंधरासु । भूपास्विवास्या विविधासु लीनशिलीमुखस्मेरसुमावलीषु ॥ १२ ॥ गणाधिराजे प्रणिधानदुग्धपाथोनिधौ मीन इवातिलीने ।
तदा कदाचिद्गगनाध्वनीनोऽपराचलाभ्यर्णभुवं बभाज ॥ १३ ॥ ' तंदा तस्मिन् शरत्समये कदाचित्कस्मिन्नपि दिनावसानव्यतिकरे गगनाध्वनीनः । 'गगनाद्ध जाध्वगो' इति हैम्याम् । सूर्यनामसु । तथा 'अध्वनीनोऽध्वगोऽध्वन्यः पान्थः पथिकदेशिको' इति हेम्याम् । अपराचलस्य अस्तादेरभ्यर्णभुवं समीपभूमीप्रदेश बभाज श्रयति स्म । कस्मिन् सति । गणाधिराज हीरविजयसूरीन्द्र प्रणिधानं ध्यानम् । 'सोऽपश्यत्प्रणिधानेन संततेः स्तम्भकारणम्' इति रघुवंशे । तदेव दुग्धपाथोनिधिः क्षीरसमुद्रः तस्मिन्मीनो मत्स्य इव अतिशयेन लीने मग्नीभूते । अथ समयवर्णनम् । केषु सत्सु । स्मितेषु विकसितेषु पयेषु कमलेषु सत्सु । उत्प्रेक्ष्यते-अस्याः शरलक्ष्म्याः