SearchBrowseAboutContactDonate
Page Preview
Page 367
Loading...
Download File
Download File
Page Text
________________ ३०६ काव्यमाला | 1 यस्यां शरदि द्विजाधिपो ब्राह्मणश्रेष्ठः शशभृच्च । उत्प्रेक्ष्येते - निस्तन्द्रो मेघा अहिमधूमप्रमुखनिर्मुक्तत्वेन निर्मलो यश्चन्द्रातपश्चन्द्रिका तत्तुल्यैर्विशदैन रपूरैः । गङ्गोदकसमुदायैरित्यर्थः । पक्षे । ज्योत्स्नैव जलप्लवैः कृत्वा मुरारेर्नारायणस्य पदं स्थानं चरणं च नभः क्षालयति धावयतीव । किंभूतं पदम् । मलीमसीभूतं अपावनं जातम् । केन । अभ्रस्याकाशस्य मातङ्गश्चाण्डालस्तस्य । अथवा गगनमातङ्गेन समं संगमेन । अथवा अने आकाशे पर्वतायुच्चस्थाने खपाचेन समं संगमेन कृत्वा अस्पृश्यभावमभ्युपगतम् । मातङ्गस्पृष्टं हि वस्तु जलेन शुध्यतीति जनप्रतीतिः । पक्षे । अभ्रमातङ्गैर्मेधैः । 'नभसः कलभैरुपासितम्' इति नैषधे । 'नभसः कलभैर्मेधैः' इति तद्वृत्तिः । मलीमसीभूतं श्यामलं -संजातं घनान्धकारमयीभवनात् । ' दिवापि श्रूयमाणरजनिशङ्का कुलचक्रवाकचक्रकुशि' इति चम्पूकथायाम् । मलिनीभूतं हि जलैः क्षालयित्वा निर्मलीक्रियते इत्यपि लोकरूढिः ।. तत्त्वतस्तु ऐरावणगजकलितं जातम् । 'प्रावृषेण्यं पयोवाहं विद्युदैरावताविव' इति रघुवंशे । पुनः किंभूतम् । अशेषं संपूर्णमध्याकाशं वस्तुतस्तु चन्द्रचन्द्रिकया नभो धवलीक्रियते । 'आप्लावितमिव मुक्तमर्यादेन दुग्धवारिधिना विलिप्तदिग्भित्तिकमिव सान्द्रसुधापङ्कपिण्डैः प्रविष्टमिव स्फटिकमणिमहामन्दरोदरदरीषु भुवनमासीत्' इति चम्पूकथायाम् । चन्द्रोये सर्वे वेतीतेि ॥ गाधा व्यधाद्याम्बरचुम्बिरङ्गतरङ्गपूरानपि सिन्धुदारान् । जगत्प्रसारोत्सुकयद्यशःक्ष्माधरस्य किं सुप्रतराः प्रणेतुम् ॥ ८॥ या शरत् अम्बरमाकाशं चुम्बन्ति आलिङ्गन्ति इत्येवंशीलाः, तथा रङ्गन्त उपर्युपरि प्रसर्पन्तस्तरङ्गाः कल्लोला येषु तादृशाः पूराः पयः प्लवा येषां तादृशानपि सिन्धुदान् समुद्रपत्नीर्नदीर्गाधाः पादोत्तरणयोग्याः | 'सरितः कुर्वती गाधाः' इति रघुवंशे । व्यधाच्चकार । उत्प्रेक्ष्यते— जगत्सु त्रिषु भुवनेषु प्रसारः प्रसरणं पर्यटनं तत्रोत्सुकस्योत्कण्ठितस्य यस्य हीरविजयसूरेर्यशः श्लोकः स एव क्ष्माधरो राजा तस्य सुप्रतराः सुखेन स्वयं पादोत्तरणसातेन वीर्यन्ते उत्तीर्यन्ते प्रोल्लङ्घयन्ते तादृग्विधाः प्रणेतुं कर्तुं सुखेन तरीतुं शक्या विधातुमिव वा ॥ आखादितखादुमृणालकाण्डाः कूजन्ति लीलालसराजहंसाः । आगन्तुकार्हन्मतदेवतायाः स्मरध्वजाः पूर्वमिव ध्वनन्तः ॥ ९ ॥ लीलया विविधजलक्रीडया अलसा मन्थरा राजहंसा अत्यरुणचचुचरणा मराला: कूजन्ति शब्दायन्ते । ‘राजहंसास्त्वमी चचुचरणैरतिलोहितैः' इति हैम्याम् । किंभूताः । आखादिताः कवलीकृताः खादवो मधुरा रसनावदनहृदयाह्लादकरा मृणालानां कमल.. नालानां काण्डाः स्तम्बाः पटलानि यैः । उत्प्रेक्ष्यते - आगन्तुकाया आगमनशीलाया हीरविजयसूरेः पुरः प्रकटीभवितुकामाया अर्हन्मतदेवतायाः शासनदेव्याः पूर्व प्रथम
SR No.002262
Book TitleHeer Saubhagya Mahakavyam
Original Sutra AuthorN/A
AuthorDevvimal Gani, Shivdatta Pandit, Kashinath Sharma
PublisherKalandri Jain S M Sangh
Publication Year1985
Total Pages980
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy