SearchBrowseAboutContactDonate
Page Preview
Page 366
Loading...
Download File
Download File
Page Text
________________ • सर्गः] हीरसौभाग्यम् । ३०९ अथ व्यधत्त प्रणिधानमिच्छन्कंचित्स संस्थापयितुं स्वपट्टे । पुरेऽपि जीवातुरिवाखिलेऽपि प्रावर्तत प्राणभृताममारिः ॥ ४ ॥ अथ तत्र डीसानगरे चतुर्मासीमासीने सति वर्षावहलीभवनानन्तरं स हीरविजयसूरिः प्रणिधानं सूरिमन्त्रस्मरणं व्यधत्त विदधाति स्म । किं कुर्वन् । इच्छन्कान् । किं कर्तुम् । कमपि योग्यं शिष्यं खपट्टे निजपदे संस्थापयितुम् । अपि पुनस्तस्मिन्निखिलेऽपि समग्रेऽपि पुरे डीसानगरे प्राणभृतां जन्तूनाममारिर्द्विपदचतुष्पदपक्षिमत्स्या'दिप्राणिवधनिषेधो जीवदया प्रावर्तत प्रवृत्ता । तत्पुरखामिना प्रवर्तितेत्यर्थः । क इव । जीवातुरिव अर्थात् स्थलचरखेचरजलचराणां जीवनौषधमिव ।। द्वारं स्वसिद्धेरिव सूरिराजो ध्यानं दधानो वसुभूतिसूनोः । ___ अहान्यहर्बान्धवबन्धुरौजास्तन्निष्ठयेवागमयद्बहूनि ॥ ५ ॥ सूरिराजः श्रीहीरविजयसूरिभूमीपुरुहूतः तस्य ध्यानस्य निष्ठा चतुर्थषष्ठाष्टमाचामाम्लादिविविधतपोनेकमुद्रासनादिविधानपूर्वकसूरिगणनविधिक्रिया तयैव निश्चयेन बहूनि घनान्यहानि दिनानि अगमयदतिकामति स्म । सूरिमन्त्राराधनविधेस्त्रिमासावधिखात् ऋतोस्तु द्विमासावधित्वाच्चेति । किंभूतः । अहर्बान्धवो भाखान् । 'चक्राब्जाहबर्बान्धवः सप्तसप्तिः' इति हैम्याम् । तस्येव बन्धुरमतिशायि ओजः प्रतापो यस्य । किं कुर्वाणः । वसुभूतिनानो द्विजस्य सूनोर्नन्दनस्य श्रीगौतमखामिनो ध्यानं स्मरणमनुचिन्तनमर्थात्वहृदये दधानो बिभ्राणः । उत्प्रेक्ष्यते-खस्यात्मनः सिद्धेः श्रीजिनशासनाधिष्ठायकदेवतागमनलक्षणफलनिष्पत्तेर प्रवेशनमार्ग इव ॥ इति हीरविजयसूरेः सूरिमन्त्रस्य ध्यानविधानारम्भः ॥ : संपिप्रती कामितमुत्सुकानां दिग्जेत्रयात्रांसु धराधवानाम् । अथोपतस्थे शरदस्य सूरेविधित्सयेव प्रणिधानसिद्धेः ॥ ६ ॥ अथ ध्यानविधानावसरे शरद्धनविरामसमय: उपतस्थे समाजगाम । 'अथैनं समुपस्थिता ! पार्थिवश्रीद्धितीयेव शरत्पङ्कजलक्षणा ॥' इति रघुवंशे । 'उपस्थिता आगता' इति तदृत्तिः । किं कुर्वती । दिशा पूर्वादीनां हरितां जयनशीलासु यात्रासु प्रस्थानेषु सम्यगुत्सुकानामुत्कण्ठितानाम् । दिग्विजयं कर्तुकामानामित्यर्थः । धराधवानां पृथिवीपतीनां नृपाणां कामितं समीहितं संपिप्रती संपूरयन्ती पूर्ण प्रणयन्ती। 'पृपालनपूरणयोः' इत्ययं धातुः । उत्प्रेक्ष्यते-अस्य हीरविजयनाम्नः सूरेभट्टारकस्य प्रणिधानसिद्धेविधित्सया कर्तुमिच्छयेवागता ॥ मलीमसीभूतमशेषमभ्रमातङ्गसङ्गेन पदं मुरारेः। द्विजाधिपः क्षालयतीव यस्यां निस्तन्द्रचन्द्रातपनीरपूरैः ॥ ७ ॥
SR No.002262
Book TitleHeer Saubhagya Mahakavyam
Original Sutra AuthorN/A
AuthorDevvimal Gani, Shivdatta Pandit, Kashinath Sharma
PublisherKalandri Jain S M Sangh
Publication Year1985
Total Pages980
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy