________________
७ सर्गः]
हीरसौभाग्यम् ।
३०९
मध्येच नीत्वा प्रापयित्वा असहायिभावेन सहायः सखा अस्यास्तीति सहायी न साहायी असहायी तस्य भावस्तेन सहाय राहित्येन । एकाकित्वेनेत्यर्थः । बलात् हठात् गृहीतमादत्तमिव । कस्मिंश्चिद्बलवति तस्करादिके वसनादि गृहीतुमुद्यते एकाकिना निर्बलेन पुंसा त्यज्यत एव ॥
कलङ्कवानिन्दुरथाभ्युदेताकलङ्किनो विश्वविबोधिनो मे ।
न सांप्रतं सांप्रतमत्र वस्तुमितीव याति क्वचिदंशुमाली ॥ १६ ॥
अंशुमाली सूर्यः कचित् कुत्रचन स्थाने याति गच्छति । उत्प्रेक्ष्यते— इति कार - णादिव । इति किम् । यत् । अथ दिवसावसानानन्तरं कलङ्कवान् दोषाकरत्वेन कलकलितः । अथवा कामितया गुरुदार कामुकत्वात्सकलङ्क इन्दुश्चन्द्रोऽभ्युदेता उदयध्यते तत्कारणादकलङ्किनो निष्कलंङ्कस्य तथा विश्वविबोधिनः जगत्प्रतिबोधप्रविधानशीलस्य मे ममात्र भुवने सांप्रतमधुना वस्तुं स्थातुं न सांप्रतं न युक्तं नोचितीमञ्चति ॥
खरागिणीमञ्जनकुम्भिकुम्भप्रगल्भपीनस्तनदिङ्मृगाक्षीम् ।
निर्वर्ण्य रागीव दिनावसाने किं पद्मिनीप्राणपतिः प्रयाति ॥ १७॥ पद्मिनी | यस्याः शरीरसौरभभरमाघ्राय मधुरा मालतीप्रमुखकुसुमजातीर्विहाय यसनोपरि परिभ्राम्यन्ति सा पद्मिनीत्युच्यते । तस्याः प्राणपतिः प्राणेभ्योऽतिवल्लभः पतिव्रतात्वेन भाखान् दिनावसाने संध्यासमये प्रयाति गच्छति । उत्प्रेक्ष्यते – अञ्जननामा पश्चिम दिग्गजः । यतः - 'ऐरावतः पुण्डरीको वामनः कुमुदोऽञ्जनः । पुष्पदन्तः सार्वभौमः सुप्रतीकश्च दिग्गजाः ॥ एते पूर्वाद्यानां दिशामष्टौ दिग्दन्तिनः सन्ति । तेषु प्रतीच्या दिग्दन्ती अञ्जननामा कुम्भी गनस्तस्य कुम्भी शिरसः पिण्डौ तावेव प्रगल्भौ कामिजनमनोहारिणौ तथा पीनावतिपुष्ट स्तनौ पयोधरौ यस्यास्तादृशी दिक् प्रतीची सेव मृगाक्षी हरिणनयना तां स्वम्मिन्विषये रागिणीमनुरागिणीं प्रेमातिरेकभाजिनीमरुणां च निर्वर्ण्य दृष्वेव याति । क इव । रागीव । यथा कश्चिद्रागी पुमान् पद्मिनीपतिरपि स्वाङ्गनामवगणयन् । 'स्वाधीनेऽपि कलत्रे नीचः परदारलम्पटो भवति । संपूर्णेऽपि तटाके काकः कुम्भोदकं पिवति ॥', तथा 'चातुर्येणातिवाचं मुगणमणिखनीं भाग्यसौभाग्यलक्ष्मीं स्वाधीनां भक्तिभाजं विमलकुलभवां शीलमाशीलयन्तीम् । प्रेमाढ्यां पद्म खां परयुवतिरतो हा विहायेन्दुवक्रामन्यां वामां कुरूपामनुसरति जनो मन्मथं तद्धिगस्तु ॥', 'सह देशे विन्नाणं अणरसमन्भं मिगाइयं गीयम् । नियमहिलाणय रूवं तन्निविलोएन अग्घन्ति ॥ इति वचनात् । रागातिरेकवान् सन् स्वस्मिन्नत्यनुरक्तां कामिनी प्रेक्ष्य सायं तत्संनिधी याति ॥
उत्तुङ्गतारङ्गशिखावलम्बि किंजल्कलीलायितरश्मिराशि । पयोधिपूरेऽम्बुजबन्धुबिम्बं स्मेरारुणाम्भोरुहवद्विभाति ॥ १८ ॥