________________
काव्यमाला।
र्धनाया जायमाना अर्थिनां याचकानां मण्डलाः समूहा येषु । क इव । वज्रखामीव । यथा धनगिरिसुतः वज्रस्वामिनो जननी सुनन्दानाम्नी तया सजनयित्र्या साधं सींह गिरिनामाचार्यस्य पार्थे महामहोत्सवैः प्रव्रज्यां गृह्णाति स्म ।
जयविमल इदं तन्नामधेयं विधिज्ञो __व्यधित विजयदानः सूरिसारङ्गराजः । पुनरभिनवसूरेस्तं प्रदत्ते स्म सूनो
विनयिन इव वप्ता खं क्रमेणागतं खम् ॥ १८५ ॥ विजयदाननामा सूरिष्वाचार्येषु सारङ्गराजो मृगेन्द्रः सिंहः जयविमल इदमेतत्तस्य जयसिंहमुने मधेयमभिधानं व्यधित विदधाति स्म । किंभूतः । विधि शास्त्रोक्तं लौ.. किकं च आचारं जानाति वेत्तीति विधिज्ञः । पुनरंन्यमर्थमभिधत्ते-पुनस्तं जयविमलमुनिमभिनवसूरेनवीनस्थापिताचार्यस्य हीरविजयसूरेः प्रदत्ते स्म दत्तवान् । क इव ।। वप्तेव । यथा पिता तातः कुलकमेण खान्ववायपरिपाट्या समेत स्वमात्मीयं खं द्रविणं विनयिनो विनयवतः खनन्दनवैनयिककर्तव्यापहृतचेताः पिता सूनोर्निजनन्दनस्य प्रददाति ॥ इति विजयसेनसूरेर्जन्मदीक्षादिवर्णनम् ॥
विजयदानविभुर्वटपल्लिकाभिधपुरेऽथ विभूषितवान्दिवम् ।
भुवि भरेण विसार्य पुनर्दिवि प्रथयितुं महिमानमिवात्मनः॥१८॥ अथानन्तरं विजयदाननामा विभुर्गच्छाधिपतिः सूरिः वटपल्लिका ('वडली' इति लोकप्रसिद्धा) इत्यभिधा नाम यस्य तादृशे पुरे दिवं खकिं विभूषितवान् अलंकरोति स्म । उत्प्रेक्ष्यते-आत्मनः खस्य महिमानं माहात्म्यं दिवि देवलोके पुनर्भूमण्डलापेक्षया द्वितीयस्थाने प्रथयितुं विस्तारयितुमिव । किं कृत्वा । भुवि पृथिव्यां भरेणातिशयेनान्महिमानं विसार्य विस्तारयित्वा ।।
सूरीन्द्रहीरविजयः प्रतिपद्य पट्ट
लक्ष्मी गुरोरनु विशिष्य पुपोष भूषाम् । वस्तुर्निजस्य युवराज इवाधिपत्यं ।
क्रान्तारिचक्रमखिलाम्बुधिमेखलायाः ॥ १८७ ॥ सूरीन्द्रः सूरीणां सर्वेषां मध्ये परमैश्वर्या दिन्द्रः एवंविधः श्रीहीरविजयः एतावता श्रीहीरविजयसूरिपुरंदरः गुरोविजयदानसूरेरनु पश्चात् पट्टलक्ष्मी पट्टश्रियं प्रतिपद्याङ्गीकृत्य विशिष्य विशेषप्रकारेण कृत्वा भूषां शोभा पुपोष पुष्णाति स्म । क इव । युवराज इव । यथा युवराजपदवीं प्रतिपन्नो राजकुमारो निजस्य वप्नुः आत्मीयस्य जनकत्यानन्तरं क्रान्तारिचक्र पराभूताभिमानिभूमिपतिमण्डलं वशीकृतसमस्तप्रतिपन्थिपार्थिवसाथै वा अखिलाम्बुधिमेखलाया निःशेषकाश्यपीपीठस्याधिपत्यमैश्वर्य प्राप्याधिकं शोभते ।।