________________
६ सर्गः हीरसौभाग्यम् ।
२९९ अथ पृथुकपुरोगः संमदेन व्रतीन्दो
रिव गजसुकुमालः खामिनोऽरिष्टनेमेः । अधिकमधरयन्ती साधिमानं सुधानां
श्रवणविषयभावं देशनामानिनाय ॥ १८१ ॥ अथ सूरतिवन्दिरे सूरिपार्थागमनानन्तरं पृथुकपुरोग: कुमारश्रेष्ठः । 'वर्य वरेण्यं प्रवरं पुरोगम्' इति हैम्याम् । संमदेन हर्षेण व्रतीन्दोः सूरेदेशनां धर्मोपदेशं श्रवणविषयभावं श्रुतिगोचरतामानिनाय प्रापयति स्म । शृणोति स्मेत्यर्थः । देशनां किं कुर्वतीम् । सुधानाममृतरसानां साधिमानं चारुताम् । आस्वादमित्यर्थः । अधरयन्ती हानी कुर्वतीम् । किमधिकं बहु यथा स्यात्तथा। मिष्टत्वेन सुधामपि धिकुर्वतीमित्यर्थः । क इव । गजसुकुमाल इव । यथा कृष्णलघुभ्राता देवक्या अष्टमः पुत्रो गजसुकुनाल: अरिटनेमेः श्रीनेमिनाथस्य खामिनो जगन्नाथस्य तीर्थकृतो देशनां शुश्राव ॥
असारादेहिना देहात्सारोऽर्हद्धर्म एव हि ।
उद्धार्योऽनर्थकार्यर्थाद्दानशौण्डेन दानवत् ॥ १८२ ॥ देहिना भविकप्राणिना असारादाधिव्याधिजरादिभिः साररहितीकृताइहादात्मशरीरा. दहतो जिनस्य जिनप्रणीत एव सारो निखिलार्थसाधको धर्म एवोद्धार्य उद्धरणीयः । किंवत् । दानवृत् । यथा अनर्थ पितृभ्रातृपुत्रमित्रादिद्रोहं कारयतीत्येवंशीलादर्थाद्धनादानशौण्डेन वदान्येन दानमुद्रियते । यदुक्तम्-'दानं वित्तादृतं वाचः कीर्तिधर्मों तथायुषः । परोपकरणं कायादसारात्सारमुद्धरेत् ॥' इति ॥
प्रबुबुधे प्रभुदेशनयानया शिशुसहस्रदृशा समसम्बया । • विशदचन्द्रिकयेव कुमुद्वतीलतिकया कुमुदेन तमीमणेः ॥ १८३ ॥ शिशुसहस्रदृशा कुमारपुरंदरेण प्रबुबुधे प्रतिबोधः प्राप्यते स्म संसाराधरज्यत । . कथम् । समं सार्धम् । कया । अम्बया तजनन्या कोडिमदेव्या । कयां । प्रभोर्विनयदानसूरेरनया पूर्वोक्तया देशनया धर्मकथया । केनेव । कुमुदेनेव । यथा तमीमणेश्चन्दस्य विशदचन्द्रिकया शरत्समय निर्धूतोद्धरजलधररोधनिर्मलीभवञ्चन्द्रगोलिकया कृत्वा कुमुद्वतीलतिकया कुमुदिनीवल्या समं करवेण प्रबुध्यते ॥
प्रभोरुपान्ते सममम्बया महामहैर्महेभ्यीभवदर्थिमण्डलैः । सुनन्दया सीहगिरेः स वज्रस्वामीव जग्राह शिशुस्तपस्याम् ॥ १८४ ॥ स शिशुर्जयसिंहकुमारः अम्बया कोडाईमात्रा समं प्रभोर्विजयदानसूरेरुपान्ते समीपे महामहे विकजनविनिर्मितानेकाधिकोत्सवैस्तपत्यां दीक्षां जग्राह आदत्ते स्म । महामहैः किंलक्षणैः । महेभ्यीभवदर्थिमण्डलमहेभ्यीभवन्तः कामिताधिकधनप्रदान