________________
२९८.
काव्यमाला।
विशेषादिकं जग्राह । यतः'-वेश्यानामिव विद्यानां मुखं कैः कैन चुम्बितम् । हृदयप्राहिणस्तासां द्वित्राः सन्ति न वा क्षिती ॥' इति सूक्तवचनात् । स विद्याहृदयग्राही जज्ञे । किंवत् । अभिज्ञवत् । यथा छेकः पुमान् मुग्धं कार्याकार्यविचारानभिज्ञं हिताहित. ज्ञानरहितं वा परवञ्चनकपटाभिप्रायवेदनामूढं वा चेतो मनो ये तेपां पुंसां हार्दै ग. हाति रहस्यं पृष्ठा दत्ते । यतः- रचावइ रचइ नही परमन लिन्ति न दिन्ति । धुत्तछयल्ला एह गुण मन हरि मान करन्ति ॥ इति वचनात् ॥ . . . . .
सिद्ध्यध्वानं प्रतिष्ठासुर्विधित्सुर्धर्ममार्हतम् ।
सखायमिव तद्वप्ता संयमं समुपाददे ॥ १७७ ॥ ततोऽनन्तरमित्यध्याहारः । तस्य जयसिंहस्य वप्ता पिता संयमं चारित्रं समुपाददे सम्यक्प्रकारेण गृह्णाति स्म । कमिव । सखायमिव । यथा कश्चित्सखायं मित्रं वा गु: हाति । सख्युङ्ग्रह्ण कारणमाह-किं चिकीर्षुः । सिद्ध्यवानं मोक्षमार्ग प्रतिष्टासुः प्र. स्थातुमिच्छुः । पुनः किं कर्तुमिच्छुः । आर्हतं जैन धर्म चारित्रलक्षणं दिधिन्मुः विधातुमिच्छुः कर्तुकामः । यो हि मागे प्रतिटते तस्य सहायोऽवश्वं विलोक्यते । कार्यकरणेऽपि च सख्युरपेक्षा स्यादिति ॥
ततो नमसितुं तातं कुमारः स कदाचन ।
प्रतिष्ठते स्म सानन्दं वृषभाङ्कमिवार्षभिः ॥ १७८ ॥ ततः पितुः परिव्रज्याग्रहणानन्तरं स जयसिंहकुमारः कदाचन कस्मिन्नपि समये तातं खपितरं कमर्षि नम सितुं नमस्कर्तुम् । 'नमसि तुमना यत्नांम स्वामनाम न पूपणम' इति नैषधे । सानन्दं सप्रमोदं प्रतिष्ठते स्म । प्रचचाल । क.इव । आर्षभिरिव । यथा भरतो वृषभाङ्क खतातमृषभदेवं प्रणन्तुं प्रचलति म्म ॥
प्रीतिवापीपयःपूराप्लवनैः पुलकाङ्किता।
प्रसूस्तमनुयाति स्म गौरिवाङ्गजमात्मनः ॥ १७९ ॥ प्रसूर्जयसिंहजननी कोडाई तं स्वनन्दनमनुयाति स्म अनुजगाम । किंभूता । प्रीतिः खपुत्रोपरि यः स्नेहः सैव वापी दीर्घिका तस्याः पयःपूरे आपवनैः नान: कृत्वा पुलकाङ्किता रोमाञ्चकञ्चककलिता जाता । केव । गौरिव । आत्मनोऽङ्गजं वत्सरूपमनुगच्छति।।
श्रीमन्मुनिनिशारत्नं जयसिंहकुमारराट् ।
प्रणतेर्गोचरीचक्रे श्रीवीरमतिमुक्तवत् ॥ १८० ॥ जयसिंहनामा कुमारराट् पृथुकपार्थिवः श्रीमन्तं गपाल मीरमगं मुनीनां मध्ये निशारत्नं चन्द्रमसं विजयदानसूरिं प्रणतेनमस्कारख गोचरीचक्रे विषयी कृतः। प्रणत इत्यर्थः। किंवत् । अतिमुक्तवत् । यथा अतिमुक्तककुमारः श्रीवीरं श्रीमन्महावीर देवं प्रणतवान् ॥