________________
६ सर्गः] हीरसौभाग्यम् ।
२९७ धात्रीभिः प्रेमपात्रीभिः पाल्यमानः स बाल्यतः ।
रामो यादवरामाभिरिवासौ ववृधे क्रमात् ॥ १७२ ॥ अथ नामादिनिर्माणानन्तरं स जयसिंहकुमारः क्रमादनुक्रमेण ववृधे वर्धते स्म । किंभूतः । बाल्यतो जन्मदिनं प्रभृतीकृत्य प्रेमपात्रीभिः कुमारोपर्यतिशयितस्नेहभाजनभूताभिर्धात्रीभिरुपमातृभिः पाल्यमानः रक्ष्यमाण: सम्यग्यत्नेन गोप्यमानः । क इव । राम इव । यथा बलभद्रो यादवानां यदुवंशोत्पन्नानां रामाभिर्वनिताभिः पाल्यमानो वर्धते स्म ।
पुपोषावयवैर्वृद्धिं स क्रमेण स्तनंधयः । __ आलवालाम्बुपायीव शाखाभिश्चन्दनाङ्करः ॥ १७३ ॥ स जयसिंहः क्रमेण परिपाट्या अवयवैरङ्गोपाङ्गैर्वृद्धिमुपचयं पुपोष पुष्णाति स्म । किंभूतः । स्तन्धयः उपमातृणां पयोधरपयःमा(पा)नविधायी । क इव । चन्दनाङ्कुर इव । यथा आलवालस्य स्थानकस्याम्बु पानीयं पिबतीत्येवंशीलः श्रीखण्डपादपप्ररोहः शाखाप्रशाखाभिरुपचयं लभते ॥ .. स प्राक्चक्रमणैः पित्रोरारोप्य प्रीतिवीरुधम् ।
आलपन्सफलीचक्रे वर्षन्निव घनाघनः ॥ १७४ ॥ स जयसिंहः आलपन् त्रुवन्. सन् पित्रोर्जननीजनकयोः प्रीतिवीरुधं स्नेहलतां सफ. लीचक्रे कलकलितां कृतवान् । किं कृत्वा । प्राक् पूर्व चकमणैर्हिण्डनैः कृत्वा आरोग्य स्थानके निवेश्य । रोपयित्वेत्यर्थ: । सफलीचक्रे क इव । घनाघन इव । यथा वर्षन् वारिवृष्टिं सृजन् वारिवाहः प्राग्वल्ली वृक्षादिष्वारोप्य स्थापयित्वा सफलीकुरुते ॥
वर्धमानः क्रमेणासावजनिष्टाष्टहायनः ।।
प्रत्यहं प्रणयन्केलीः सिन्धुराधिपपोतवत् ॥ १७५ ॥ . असौ जयसिंहः क्रमेण वर्षपरिपाट्या वर्धमानः सन्नष्टा(टौ)संख्याकानि हायनानि वत्सराणि यस्य तादृशोऽजनिष्ट संजातवान् । किं कुर्वन् । प्रत्यहं बाल्यत्वानिरर्गल: प्रतिवासरं केलीर्बालवयोयोग्याः क्रीडाः प्रणयन् कुर्वन् । किंवत् । सिन्धुराधिपपोतवत् । यथा गजेन्द्रस्य दशवार्षिकः शिशुर्गजो बालक्रीडां कुर्वन् वर्धते । 'स्यात्पोतो दशवार्षिकः' इति हैम्याम् ॥
सोऽनवद्यास्ततो विद्याः स्माधीते गुरुसंनिधौ ।
हार्द तासां च जग्राहाभिज्ञवन्मुग्धचेतसाम् ॥ १७६ ॥ ततोऽष्टवर्षभवनानन्तरं स जयसिंहो गुरुसंनिधौ कलाचार्यस्य समीपे अनवद्या निपापाः प्रशस्ता वा विद्या अधीते स्म पठति स्म । च पुनस्तासां विद्यानां हार्दै रहस्य
३८