SearchBrowseAboutContactDonate
Page Preview
Page 357
Loading...
Download File
Download File
Page Text
________________ २९६ काव्यमाला। हस्तिन्यां दुहितर्यपि । वेश्यायामपि' इत्यनेकार्थः । यद्यपि वशाशब्दो हस्तिन्यां प्रवतते तथापि बाहुल्यानार्यामेव प्रयुज्यमानत्वाद्गन्धसिन्धुरराजस्य वशा हस्तिनीत्यभिधानम् । गन्धेभपत्नीत्वात्प्राधान्यं च ॥ समयेऽथ तया रत्या ब्रह्मसूरिव नन्दनः । ___ सुषुवे सुषुमास्तोमः प्रोद्भवन्मूर्तिमानिव ॥ १६८ ॥.. . अथ गर्भभवनानन्तरं समये सार्धसप्तवासराधिकनवमासपरिपूर्तिप्रस्ताव तया' कोडिमदेव्या नन्दनः पुत्रः सुषुवे प्रसूतः । कयेव । रत्येव । यथा कन्दर्पपत्न्या ब्रह्मसूरनिरुद्धनामा तनयः प्रसूतः । 'कन्दर्पसुतोऽनिरुद्ध ऋष्याक ऊषेशो ब्रह्मसूश्च सः' इति हैम्याम् । उत्प्रेक्ष्यते-मूर्तिमान् शरीरसंयुतः प्रोद्भवन् प्रकटीभवन् सुषुमास्तोमः सातिशायिशोभासमुदय इव ॥ तनूजन्माननज्योत्स्नानाथे लवणिमामृतम् । चकोरेणेव पिबता ननृते पितृचक्षुषा ॥ १६९ ॥ पितृचक्षुषा कमामहेभ्यलोचनेन ननृते नर्तितम् । किं कुर्वता । पितृचक्षुषा तनूजन्मनः खनन्दनस्य आननमेव वदनमेव ज्योत्स्नानाथश्चन्द्रमास्तस्मिन् लवणिमा लावण्यं सौन्दर्यमेवामृतं सुधां पिबता। सादरमवलोकयतेत्यर्थः । केनेव । चकोरेण यथा ज्योत्स्नाप्रियेण कुमुदबान्धवबिम्बे ज्योलामृतं पिबता सता नृत्यते ॥ क्षीरकण्ठः कृतोत्कण्ठः संजाते जातकर्मणि । उत्तेजित इवादर्शः शिश्रिये परमां श्रियम् ॥ १७० ॥ क्षीरकण्ठः शिशुः कमादारकः जातकर्मणि जातस्य संप्राप्तजन्मनः सूनोः स्थितिपदिकाचन्द्रसूर्यदर्शनषष्ठीजागरणाशुचितादिनिवर्तनादिके कर्मणि कर्तव्ये संजाते सति परमां प्रकृष्यं श्रियं शोभा शिश्रिये श्रयति स्म बभाज । किंभूतः क्षीरकण्ठः । कृता निर्मिता खसौन्दर्यादिगुणैः खजनादीनां दर्शनाद्युत्कण्ठा औत्सुक्यं येन । क इव श्रियं श्रितवान् । उत्तेजितः शाणोल्लिखितो निर्मलीकृत आदर्श इव । यथा उत्तेजितो दर्पणः शोभा भजते ॥ अयं जयं यतः कर्ता सिंहवद्वेषिदन्तिनाम् । जयसिंह इतीवास्य बीजी नाम विनिर्ममे ॥ १७१ ॥ बीजी तत्पिता कमावः । उत्प्रेक्ष्यते इति हेतोस्तस्य कुमारस्य जयसिंह इति नामविनिर्ममे कृतवानिव । इति किम् । यतः कारणादयं कुमारः सिंहवत्केसरीव द्वेषिणः खशात्रवान् ] जिनशासनप्रतिकूलताभाजो वा कुवादिनस्त एव दन्तिनो गजास्तेषां जयं पराभवं कर्ता विधास्यति । वप्ता तु जनकत्तातो बीजी जनयिता पिता' इति हेम्याम् ॥
SR No.002262
Book TitleHeer Saubhagya Mahakavyam
Original Sutra AuthorN/A
AuthorDevvimal Gani, Shivdatta Pandit, Kashinath Sharma
PublisherKalandri Jain S M Sangh
Publication Year1985
Total Pages980
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy