SearchBrowseAboutContactDonate
Page Preview
Page 362
Loading...
Download File
Download File
Page Text
________________ ६ सर्गः] हीरसौभाग्यम् । मण्डयत्यमरमन्दिरं गुरौ दीप्यते स्म मुनिवासवोऽधिकम् । यामिनीप्रियतमे पराम्बुधर्मध्यभागमिव पद्मिनीपतिः ॥ १८८ ॥ गुरौ विजयदानसूरीश्वरे अमरमन्दिरं सुरसदनं देवलोकं मण्डयत्यलंकुर्वति सति । 'मण्डति भूषत्वलंकरोत्यपि च मण्डयति भूषयत्यपि' इति क्रियाकलापे । मुनिवासवो हीरविजयसूरिपुरहूतः अधिकमतिशयेन दीप्यते स्म स्फूर्तिं बिभर्ति स्म । क इव । पद्मिनीपतिरिव । यथा यामिनीप्रियतमे निशानाथे चन्द्रे पराम्बुधेः पश्चिमसमुद्रस्य मध्यभागमन्तरालं भजति सति पद्मिनीपतिरधिकमतिशायितया दीप्यते एतावता दिवसोदयमवाप्य भाखानधिकतेजखी स्यात् ।। इति विजयदाने सूरीन्द्रे परलोकं प्राप्ते श्रीहीरविजयसूरेः पट्टधरत्ववर्णनम् ।। यद्हशृङ्गाङ्गणनद्धमारुतप्रेझुत्पताकापटपल्लवच्छलात् । गोष्ठीमनुष्ठातुमिवामरावतीं श्रिया सखीमायतीव पाणिना ॥ १८९॥ यत्पुरं डीसानगरम् । उत्प्रेक्ष्यते- गोष्टीमनुष्टातुं परस्परं प्रीतिवार्ता विधातुं श्रिया समृद्धया शोभया सखीं वयसीममरावतीं पुरंदरपुरी प्राणिना हस्तेन आह्वयत्याकारयतीव भूचराणां तूर्वलोकगमनं न भवेत् , खेचराणां त्वध उर्ध्वगमनशक्तिरस्त्येव, तस्मादमरावत्याकारणं युक्तमेव । कस्मात् । गेहशृङ्गाङ्गणे डीसानगरगृहशिखराजिरे नद्धः अंडटकमध्यनिवेशितदण्डपान्तनिबद्धः, तथा मारुतेन वातेन प्रेङ्खनितस्ततश्चञ्चली. भवन्पताकापटपल्लवो ध्वजवसनाञ्चलस्तस्य छलं कपटं तस्मात् । अत्र यावद्धजवाचित्वादेकवचनमेव विवक्षितम् ॥ यदीयराजद्विभवाभिभूतया पौलस्त्यपुर्या किमभाजि लज्जया । यदुष्ण्यतेऽद्यापि तया न भङ्गोऽभिज्ञानमीशानशिलोच्चयाश्रयः ॥१९०॥ : यदीयो डीसानगरसंबन्धी राजन् जगति शोभां प्राप्नुवन् यो विभवः समृद्धयतिशयस्तेनाभिभूतया जितया पौलस्त्यपुर्या धनदनगर्या । उत्प्रेक्ष्यते-लजया त्रपया कृत्वा किमभाजि नंष्ट्रा गतम् । यस्मात्कारणादद्यापि अद्यतनदिनं यावत्तया अलकापुर्या भङ्गाभिज्ञानं पलायनचिह्नमीशानशिलोचयाश्रयः कैलासशैलशिखरस्थिति!ज्झ्यते न त्यज्यते ॥ यदीयलक्ष्म्या विजितेव लङ्का प्रणश्य मध्येऽम्बुनिधेविवेश । कदाचन प्रावृषि सूरिराजो डीसाह्वयं तत्पुरमाससाद ॥ १९१॥ यदीयया डीसानगरसंबन्धिन्या लक्ष्म्या श्रिया विजिता पराभूता सती लङ्का दशमस्तकपुरी । उत्प्रेक्ष्यते-पराभूता त्रपातिरेका दुःखाद्वा प्रणश्य प्रपलाय्य अम्बुनिधेमध्ये समुद्रान्तराले विवेश प्रविष्टेव । कदाचन कस्यांचित्प्रावृषि वर्षाकाले सूरिराजो हीरविजयसूरिर्वसुधाविवस्वान् । तत्पूर्वव्यावर्णितं 'डीसा' इत्याह्वयं नाम यस्य तादृक्पुरमाससाद भजति । इत्यन्ते त्रिभिर्विशेषकम् ॥ इति डीसानगरं च । .
SR No.002262
Book TitleHeer Saubhagya Mahakavyam
Original Sutra AuthorN/A
AuthorDevvimal Gani, Shivdatta Pandit, Kashinath Sharma
PublisherKalandri Jain S M Sangh
Publication Year1985
Total Pages980
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy